सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० विशिष्टाद्वैतसिद्धिः [ ७३ जायमानकटाक्ष विशेषधन्येषु आर्जवनिधिषु प्रामाणिकमूर्धन्येषु अपार- नीतिसागरपारगेषु वेदान्तवित्तमेषु ब्रह्मवित्सु अस्मदाचार्येषु असह्याप- चारपरम्परां महतीमाचरितवान् तत्त्वमिदं विज्ञाय आत्मत्यागपर्यन्त मात्मनः प्रायश्चित्तं यदि व्यवस्येत् तदपि पर्याप्तं न वेति संशेमहे | 'जिह्वामुलाट्य सपदि मर्तव्यं ननु मानिना' इत्यन्यत्र क्वचिदस्माकं वक्तव्यमासीत् । तदिदानीं स्मृतिपदमायाति । त्यै निष्ठाः सत्यैकबलाः । अहिंसा प्रथमं पुष्पमित्यारभ्य 'सत्यमष्टविधं पुष्पं विष्णोः प्रीतिकरं भवेत्' इत्युपदिष्टैरष्टाभिः पुष्पैः भगवदर्चनपराः | तैरुदाहृतं वचनं यद्याकरे न दृश्यते तर्हि तत्र ग्रन्थपात इति वा अभि निविष्ठैः कैश्चिदुद्वापः कृत इति वा सर्पाद अध्यवसातव्यम् । न त्वाचा- र्येषु अनार्जवं मनागपि शङ्कनीयम् । तेषां स्वभावस्यात्यन्तविरुद्धत्वात् । इदं विष्णुविंचक्रम इत्येतया चरु प्रश्नीयादित्यादि सच्चरित्ररक्षाया- मुदाहृतं बोधायनवचनं तदीये गृह्यसूत्रे अस्ति च दृश्यते च | तत्त् न महापुरुषनित्यपरिचर्याविधिप्रकरणे | अपि तु तत उत्तरं विष्णुकल्प- विधानप्रकरणे | तत्रान्ते एवं पठ्यते- - इदं विष्णुर्विचक्रम इत्येतया चरु प्राश्नाति । एवं घोषयेत् - यो वैष्णव इत्याह । वैष्णवोऽस्मीति यः प्रतिब्रूयात् तस्मै शेपं दद्यात् | एतैरेव मन्त्रैः प्रश्नाति । प्राश्याप आचम्य....द्वादशा- क्षरं जपित्वाऽश्वमेधफलमाप्नोति सकृदिष्वा सनातनमिति । [ मैसूर् मुद्रणे २७५--६ पुटयोः] इति । शिवविष्णुपूजयोरुभयोरपि विधानेऽपि शिवस्योत्कर्ष सूचयति बोधायन इति बोधायन शिवपूजाविधौ ब्रह्मविष्णवोस्तदावरणे निवेशात् देवतान्तरपूजाविधिषु शिवस्यावरणदेवतास्वनिवेशाच्च तस्य सर्वोत्कर्ष सूचयामास ।