३८२ विशिष्टाद्वैतसिद्धिः सेत्स्यति । नापि यज्ञदत्तवाक्यस्याप्रामाण्यम् । एवं 'न वा मायामात्रं' इत्यस्य द्रमिडभाध्ये असत्त्वेऽपि तस्य माया- मयरूपनिरासपरत्व स्थितमेवेति प्रत्यपादि । तेन वृथैव शास्त्री तत्र तद्- सत्त्वनिरूपण वैययमवत्तम्ब्य मलिनमात्मानं मलिनतरं करोति । श्री- वेदान्तसारे 'कार्यत्वं मायामयत्वं वेति 'स्याद्रूपं कृतकमनुग्रहार्थं तच्चेतसा- मैश्वर्यात्' इति निरसनीय मतमुपन्यमय' इति शुद्धः समीचीनः पाठः । कार्यत्वं मायामयत्वं वेति यत् निरसनीयं मतं तत् ‘स्याद्रूप' इत्यनेन वाक्येनोपन्यस्येति योजना अर्थश्च कृतकं क्रियया निष्पादितम् । तत्त्वं च घटादेः कार्यत्वे पर्यवसितम् । ऐन्द्रजा- लिकवस्तुनः मायामयत्वे पर्यवलितम् । द्विविधमपीदं कृतकत्वं निरसना- यम् । 'रूपं वा' इति सिद्धान्तवाक्यस्य साक्षाद्विवरणपरं भाप्यं 'अञ्ज- सैव विश्वसृजो रूम्” इति । ततः पूर्वं अर्थसिद्धं पूर्वपक्षनिराकरणं 'न' वा मायामात्रं’ इत्येवं क्रियते । इतः प्राक् 'न कायँ' इत्यपि पठितं स्यादिति भाति । कार्यत्वं मायामयत्वं वेति कोटिद्वयं हि निरसनीयस्य मतस्य प्रागुक्तम् तत् द्रमिडभाष्ये "न कार्य न वा मायामात्रं, अञ्जव विश्व- सृजो रूपम्' इति स्थितं बुद्धौ कृत्वैवातमिति हि युज्यते । 'न कार्यं' इत्येतदेव कथञ्चित् विचार्य' इति विकृतं सत् पङ्क्तिभेदेन 'मायामयत्वं वेति' इत्यस्यानन्तरं पठितमासीदित्यपि भाति । मायामयत्वं पूर्वपक्षतयैवाक्कं द्रमिडभाध्य इति भास्करभाष्यवेदार्थ संग्रहाभ्यां स्पष्टम् । तत् श्रीशङ्करः सिद्धान्ततयैव परिजग्राह| द्रमिड- भाष्यविरोधं जानन्नपि अगत्या तच्च वाक्यं च उपेक्षीयं मेने । अत्र शास्त्रिणः विपरीतसावनप्रयासो वृथा । ६८. यथा द्वेषभूम्ना तथा रागभूम्नाऽपि मिथ्या कल्पनासुप्रसितः शास्त्री । सूत्रभाष्य समन्वयाधिकरणान्ते 'गोणमिथ्यात्मनोऽसत्त्वे'
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४९५
दिखावट