३३४ विशिष्टाद्वैतसिद्धिः [ ३६ शब्दप्रयोगरूपमश्लीलं कप्टतरम् | " इत्यादि वदति । परमेश्वरलोचनोपमाने पुण्डरीके मर्कटासनोपमा शङ्करोक्ता हीनोपमेत नैव श्रीभाष्यकारादिभिरुक्तम् । कप्यासनं पुण्ड- रीकं च साक्षादुपमानमक्ष्णोरिति पते कप्यासनीपमा हीनोपमेत श्रुत- प्रकाशिकावामुच्यते । तस्मादत्रान्ययाग्राही दीक्षितः । तथाप्येतदुद्भा- दिपौरिहरन् श्रीरङ्गरामानुजमुनिः भावव काशिका यामिदमाह-- " ननु हीनोंपम. या आलङ्कारिकैर्दोषत्वेन परिगणनात् सा त्यज्यते चेत् सिद्धान्तेऽप्यमङ्गलस्य कप्यासशब्दस्य प्रयोगाद- श्लीलत्वं स्यात् । तथा प्रसिद्धत्वात् निहतार्थत्वं च स्यादिनि दोषद्रयं सिद्धान्ते ऽध्यस्तीति चेन्न । अश्लील वस्य सर्वपक्ष साधारणत्वात् । निहतार्थत्वं तु एतादृशजुगुप्सितार्थस्वीकारा- पेक्षा ज्याय इति तदेव युक्तमिति भावः । " इति । अयं भावः । कप्यासपदश्रवणे कपिपृष्ठभागस्मरणस्य नित भावित्वात् सर्वेषु पक्षेषु जुगुप्सनीयाथंस्मृतिकारित्वरूपाश्लीलत्वदोषः समानः । अतो ‘यश्चांभयोः समो दोषः' इति न्यायेन सोऽस्नान् प्रति नोद्भावनीयः । निहतार्थत्वं तुअङ्गीक्रियत एव । रविकरविक सितेत्याद्यर्थान्तरपरेणापि सता कप्यासपदेन जायमानः यस्यार्थस्य स्मृति रत्यन्त दोषावहेति भवान् मन्यते तम्य साक्षादेव वाच्यतया स्वीकारो हि अत्यन्तमनुचित इति । इत्थं दाक्षितोद्भावितदोषपरिहाराय भावप्रका- शिकोक्तार्थ एव ‘मर्कटजघनसदृशपुण्डरीकसादृश्याद्यर्थान्तरं तु अश्लीलत्व दिदोपदुष्टतया वाक्यकृदनादृतत्वात् भाष्यकारेशाना- दृतम् ।' इति उपनिषद्भाष्ये संक्षिप्योक्तः । अत्रोक्तं वाक्यकृदनादृतत्वं “तत्राधेत्रयस्य पूर्वपक्षत्वं तत्स्वभावादेवावगतम्" इति श्रुतमकाशिकया व्यञ्जितम् । भाष्यकारानादृतत्वं तु तेन तस्यानभिधानाद् ज्ञायते । तदत्र श्रीरङ्गगमानुजमुनिं प्रति शः स्त्रिणः कोर्पाविष्फूर्जथुरस्थाने |
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४४७
दिखावट