३०० विशिष्टाद्वैतसिद्धः [ ६÷७ सनेन भगवत्प्रसादद्वारा निवृत्तेऽस्मिन् प्रतिबन्धके स्वम्वरूपमाविर्भ- वति । तत्र कोऽनित्यत्वप्रसङ्गः । एवं प्रतिबन्धकनिवर्तकत्वात् वेदान्त- शास्त्रनिहितस्योपायस्य मोक्षानित्यत्वप्रसङ्गविरहेण प्रयोजनवत्त्वेन च सिद्धं प्र. माण्यमिति । तस्मादिदं वाक्यं नाद्वैतपरम् ।
तथा च लघुसिद्धान्तारम्भे श्रीभाष्यं - यदुक्तर्मा विद्यानिवृत्तिरेव मोक्षः । सा च ब्रह्मविज्ञानादेव भवति, इति तद्भ्युपगम्यते - इति । ६. सिद्धन्तु निवर्तकत्वादित्येतत् इष्टसिद्धयादिग्रन्थान् दृष्ट्वानपि मधुमृदनसरस्वती व्याकरण वाक्यकारवाक्यमिति विशिष्य यदाह तेन सः प्राचीनरुक्तं तस्य ब्रह्मनन्दवाक्यत्वं वस्तुतो नास्तीति निस्स- न्देहमावेदर्यात | प्राञ्चो भ्रान्ता इत्येव तस्याध्यवसायः । ७. आनन्दगिरिया इमिडभाष्यस्य अनल्पग्रन्थत्वज्ञापनात् द्रमि- डभाध्यमतिसंक्षिप्तमिति श्रुतप्रकाशिकाकारोक्तिः इमिडभाष्यादर्शननि बन्धनेत्यवसीयते, इत्याह शास्त्री | ब्रह्मनन्दिवाक्यं द्रमिडाचार्योक्तित्वेन बदन् आनन्दगिरिः स्वस्य तदुभयग्रन्थादर्शित्वं प्रख्यापर्यात । तत्र आनन्दगिरेर विवाँकतां बदन्नेव शास्त्री अत्र श्रुतप्रकाशिकाकारस्य तदु- क्तिविरुद्धाभिधायित्वेन दोषं प्रसञ्जयन्मोदते । अ० प्र० विरुद्धत्वेन तदुक्तिरेवाप्रमाणं कुतो न भवति । शाङ्करछान्दोग्यभाष्ये 'विवरणमल्प- ग्रन्थमिदमारभ्यते' इत्यत्र अल्पग्रन्थमित्यनेन द्रमिडभाष्यव्यावृत्तिरिति को निर्बन्धः, येन तस्य विस्तृतत्वं वाच्यम् । अल्पग्रन्थमिदम्, न तु बिस्तृततया श्रोतॄणामायासोद्वेगकरम्, इति भावः किं न स्यात् । श्रुत- प्रकाशिकायां च 'द्रमिडभाष्यकारादयो हि परपक्षप्रतिक्षेपाद्य नागतसं- क्षिप्तान् ग्रन्थानरचयन् ।' इत्युक्तम् । तत्र यथासम्भवं संक्षिप्ता मन्था ग्राह्या इत्यभिप्रायः। अत एव तत्त्वटीकायां "अत्र पूर्वाचार्या ब्रह्मनन्द्या- दयः । तन्निबन्धनानामतसंक्षेपाद् गहनत्वं सूचयति - सञ्चिक्षिपुरिति” इति श्रीदेशिकः ।