परिच्छेदः शब्दापरोक्षम् त्मकार्थविषयो निश्चयो डि परोक्षज्ञानात्मक एव । तत्रैव दाढ्यं सुपदेन बोध्यते । न च निश्चितपदेनैव दाढ्य स्य लाभतू सुपदं न तत्पर मिति वाच्यम् | दाढ्य तारतम्यस्य सत्त्वात् । सामान्यतां दाव्यस्य निश्चि तपदाल्लाभेऽपि तदतिशयस्य सुनोक्तेः । सुनिश्चितमिदमिति बहुलं व्यव हारी दृश्यते । न च साक्षात्कारपरः सः । एवमिमानि तावत् शाब्दापरीक्षे न प्रमाणानि । , नाप्यनुमानम्। यत्तु अपरोक्षध्वं तत्त्वमस्यादि वाक्य जन्यज्ञानवृत्ति अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियं गित्वात् ज्ञानत्ववन्, इत्यनुमान- मुक्तं, तत् पूर्वप्रयुक्तः सर्वानुमानवदेव दुरनुमानम् । अनेन हि अणुज्ञानवृ- त्तित्वमपि साधांयतुं शक्यम् । न चायोग्यार्थज्ञानवृत्तित्वमुपाधिः । प्रकृतेऽपि शाब्दवृत्तित्वस्योपाधित्वात् । यत्तु तच्चमस्यादिवाक्यस्य अपरोक्षज्ञाना- जनकत्वे अपरोक्षभ्रमनिवृत्तिर्न स्यादित्यनुकूलतर्कसत्त्वाद् विशेष इति, तन्न । प्रागेव निरस्तत्व न । सद्वितीयत्वविषयो हि भ्रमः | तस्य परीक्षित- प्रामाण्यतत्त्वावेदकश्रुतिजन्याराक्ष ज्ञानेनैव देहात्मैक्यभ्रमस्येव बाघस्स- म्भवतीति । तदर्थमनरोक्षज्ञानमनपेक्षितमिति च । अन्यथा अस्मन्मता- सिद्धेरितिवत् अस्य तर्कस्य परिहास्यत्वाच्च । ७ । विमनः शब्दः नापरीक्षवीहेतुः, शब्दत्वात् इति प्रतिसाधनं च | यत्तु दशमस्त्वमसीति वाक्ये व्यभिचार इति तन्न । किमिदं वाक्यं स्वात्मन दशमत्व प्रत्यक्षवन्तं प्रति प्रयुक्तं अथवा तद्रहितं प्रति | आद्ये अनुवादकं वाक्यम् | एतज्जन्यं च ज्ञानं पूर्वजात प्रत्यक्ष समानविषयत्वात् प्रत्यक्षमिव भाति, न तु प्रत्यक्षमेव । तथा त्व कल्पकाभावात् । अन्त्ये दश- मत्वांशे परोक्ष मेव ज्ञानम् | शब्द जन्यत्वात् । इन्द्रिय सम्बन्धाभावात् । एतेन यदुच्यते बहुलन मे तमसि लोचनहीनस्यापि तद्वाक्यादपरोक्ष- भ्रमनिवर्तकस्य दशमोऽस्मीत्यपरोक्षज्ञानस्य दर्शनात् यत्रापीन्द्रियस- द्भावः तत्रापि तदप्रयोजकमेवेति, तन्निरस्तम् । परोक्षज्ञानस्यैव तत्र
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३९२
दिखावट