परिच्छेदः श्रवणादि २६६ तत् कथम् ? नास्ति तत्र बाध इति चेन्न । तर्हि सा प्रमैव स्यात् । भ्रम इति नोच्येत । न हि बाधं विना भ्रमत्वनिश्चयः सम्भवांत । कथं तहिं भ्रमानुवृत्तिरिति चेत् ज्ञानानिवत्यैदोषानुवृत्तेः । यत्तु देहात्मैक्यज्ञानं न भ्रम इति तदयुक्तमित्यज्यत्रोक्तम् । , यदपि भामनीकारोक्तं निदर्शनं - नहि माधुर्यसाक्षात्कार विना तिक्तत्वभ्रमनिवृत्तिः', इति तदप्यापातरमरणीयम् । गुादिनित्तताज्ञाने भ्रमत्वावगमरूपस्य बाथस्य प्रकारान्तरेणैव तिचा तदर्थ तन्माधुर्या- नुभवस्यानपेक्षितत्वात् । तिक्ततामणाननुवृत्तिरूपया निवृत्तेः भित्तादि- दोषनिवृत्तिहेतुकत्वेन तत्रापि माधुर्यानुभवस्थानपेक्षितत्वात् । प्रत्युन माधुर्यानुभवस्य रसान्तरग्रहण निवृत्तिसापेक्षत्वान् । श्राधिकरसान्तग- नुभवप्रतिबद्धी हि स्वाभाविकरसानुभवः । प्रतिवन्धश्च प्रतिबन्धक नि॒वृत्तिसापेज्ञ इति । नच रज्जुस भ्रम रज्जुदर्शन देव निवर्तत इति शङ्कचम् | भ्रमस्य क्षणिक्त्वेन स्वयं निवृत्तेः । तदववारीत्वस्याप्तवचनादे- वावगमान् | तत एच भ्रमानुवृत्त्यभावात् । ततः परं निवर्त- नीयस्य कस्वचिदभावात् । क्वचित् स्वत्यक्षेणैव भ्रमत्वज्ञाने सर्वत्र तथैवेति नियमासिद्धेः । एवं प्रत्यक्षभ्रमोच्छेदः प्रत्यक्षवेति नियमादर्श- नात् न तदनुरोधेन आत्मसाक्षात्कारस्य मुक्तच गयत्वसिद्धिः । नतरां तत्साधनतथा श्रवणस्य विधिर्वा त्वं वेति सिद्धम् । नन्वद्वैतांवपयपरोक्षज्ञाने तत्त्वमसीत्यादिना जातेऽपि सम्प्रति प्रापञ्चिकभेद भ्रमाऽस्माकं न निवर्तते । अतोऽनरोक्ष साक्षात्कार एवैनन्नि- वर्तक इति निश्चीयत इति चेन्न । उक्तरीत्या साक्षात्कारण निवर्तनीयम्य कस्यचिदभावात् । विषयगतमज्ञानं निवर्तनीयमस्तीति चैन्न | तत्सत्त्वे मानामावस्याक्तत्वात् । परीक्षापरोक्ष विभागसद्ध्ये केवल भवद्भिः कल्पि- तत्वात् | तत्सत्त्वेऽपि प्रपञ्चाव्यासमूलभूताज्ञानस्य तलायें: सह शब्द- प्रमयैव निवृत्तत्वेन तदर्थ साक्षात्कारस्यानपेक्षितत्वान |
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३८४
दिखावट