सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः निमित्तपादानत्वम् १६६ वाच्यमिति गम्यते । तदैक्षत | तत् अव्यक्त शरीरकं ब्रह्म ऐक्षत सङ्कल्प- मकरोत् । क्रिमिति | अहमिदान अविभक्तनामरूपतया एकमेवास्मि । तादृशमहं बहु स्याम् । विभिन्न नामकनानारूपविशिष्टं भवेयम् । तदर्थं नानारूपतया जन्म पाप्नुयामिति । एवं सङ्कल्प्य तत् स्वशरीरतया स्वा- पृथविसद्धविशेषणभूतं अव्यक्तं तेजोरूपतया परिणामयामास | तेजश्श- रीरकमात्मानमसृजतेत्यर्थः । तत्तंज ऐनत | सृष्टतेजःशरीरकं ब्रह्म सङ्क- ल्पयामास । क्रिमिति | बहु स्यां प्रजायेयेति । ततः तदपोऽसृजत | स्वश- रीरभूतं तेजः अवात्मना परिगमय्य तच्छरीरकमभवदित्यर्थः । ता आप ऐक्षन्त । किमिति । बह्वयः स्याम प्रजायेमहीति । ता अन्नमसृजन्त | स्वशरीरभूता आपः पृथिवीरूपेण परिणमय्य तच्छरीरकमभवदित्यर्थः । सेयं दैवतैक्षत । इयं तेजोजलपृथिवीरूपाणि त्रीणि भूतानि सृष्टवती देवता सदिति प्रक्रान्तं ब्रह्म पुनः सङ्कल्पयामास । क्रिमिति | हन्ताहमि- मास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रवश्य नामरूपे व्याकरवाणीति । अत्र अहमिति अस्मदा स्वात्मानं निर्दिश्य ततः परं अनेनेति इम जीवनिर्देशात् इमास्तिस्र इति निर्दिष्टतेजःप्रभृत्यचेतनवस्तुवत् जीवोऽपि स्वभावत एव ब्रह्मणो भिन्न इति सष्टमवगम्यते । सृष्टयनुक्तेः तस्य नित्यत्वं च गम्यते। प्राक्तनात् एकमेवेत्यवधारणात् अव्यक्तवत् सच्छ- ब्दोक्तस्य ब्रह्मणोऽपृथक्सिद्धविशेषणतया तच्छरीरमित्यपि ज्ञायते । एवं सङ्कल्पितवत् ब्रह्म ततः परं यथासङ्कल्पमकरोत् । चेतनाचेतनात्मक- रीर विशिष्टं ब्रह्म देवतिर्यङ्मनुष्यस्थावरात्मकविविधवस्तुरूपमात्मान- मंकरोदित्युक्तं भवति । एवमस्य प्रकरणस्य सृष्टिप्रतिपादकत्वात् तद्नुगुणतया सतः स्वभिन्नचेतनाचेतनवस्तुविशिष्टत्वस्यावश्यं वाच्यत्वात् । अद्वैतिभिरपि अविद्याजीवयोरनादित्वेन तदानीं सत्त्वाभ्युपगमाच्च एकमेवाद्वितीय- मित्येतैस्त्रिभिः पदैः सजातीय विजातीयस्व गतभेद निषेधेनाद्वैतमत्र प्रति-