१५८ विशिष्टाद्वैतसिद्धिः प्रथमः न शाब्दः | अपितु प्रनीतिविषयतावच्छेद रुत्वममनोनस्य न भवतीत्य- र्थात् सिद्धः । सर्वत्र तु विधेयस्य उद्देश्यवाचकपदोपस्थापिते विशेष्य एवान्वयः । तद्विशेषणस्य केवलमन्वयितावच्छेदकत्वमेवेत्यौत्सगिंकम् । तदेवं बाघ काभावात् प्रश्ने चन्द्रपदं व्युत्पत्तिसिद्धविशिष्टवाच्येव+ तदनुरोधःच्चान्तरेऽपि । एवं व्युत्-त्तिन्यायसिद्धस्वार्थ समर्पकतया सर्वसामञ्जस्ये सनि हठा- देव यदखण्डार्थत्यमुच्यते तत् सर्वग्राऽनुपपन्नम् । तथाहि । चन्द्रपदं तावत् विशिष्ट्वाचितया व्युत्पन्नत्वात् चन्द्रस्वरूपमात्रपरत्वे लाक्षणिकं स्यात् । न च स्त्ररूपमात्रस्य जिज्ञासितत्वात् एतदनुरोविन्युत्तरे लक्ष- गानि न्याय्येति वाच्यम् | स्वरूपमात्रजिज्ञासाया असम्भवस्यांपपादि- तत्वात् । स्वरूपमात्रस्य प्रतिपत्तुमशक्यत्वाञ्च | सापेक्षपदार्थो ह्मयं स्त्ररूप- मिति । अस्व स्वरूपं तस्व स्वरूपमिति प्रति सम्बन्धिना सहैव भानात. तन्निरपेक्षतया स्वातन्त्र्येण भानस्य कदाप्यभावात | तस्माञ्चन्द्रवा वच्छिन्न एव चन्द्रपदवाच्य इत्त नास्याखण्डत्वम् । नापि प्रकृष्टप्रकाश- पदार्थस्त्र । प्रकृष्टप्रकाशत्वाश्रयस्यैव तत्त्वात् । केवलस्याश्रयस्य स्वरूपाभि- धानस्य प्रत्यतुमशक्यत्वात् । स्वरूपस्य द्विरभिधानवैयर्थ्याच्च । स्वरूपं स्वरूपं इति द्विरभिधानेन किं नाम प्रयोजनं भवति । प्रश्नोत्तरयारु नयोर- नुपपत्तश्च | स्वरूपं किमिति प्रश्नः । स्वरूपं स्वरूपमिति परस्परानन्वित- तया द्विरभिधानमुत्तरम् । न खल्वाभ्यां प्रश्न प्रतिवचनाभ्यां श्रोत्रोः कश्चन बांधो भवितुमर्हति । ननु स्वरूपमिति वस्तुतः चन्द्रत्वाश्रयः प्रकृष्टप्रकाशत्वाश्रयचोच्यत इति चेत् किमतः । न हि प्रतीत्यविषये विशेषणेन वस्तुनि विशेषोऽवगन्तुं शक्यते । एतेन चन्द्र सम्बन्धित्वं विना केवलव्यक्तिमात्रं यदि चन्द्रपदेन श्रोता बुध्येत "स्वरूप किमिति अयं पृच्छति" इनि, प्रश्नमनुपपन्नमेव स मन्येत | निराकांक्षवांधा- जनकत्वात् ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२७३
दिखावट