सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः कर्तृत्वाध्यासः पूर्वमिदमाम्नातं 'ध्यायतीव लेलायतीव' इति । जाग्रल्लोकसव्वारस्य ज्ञात चरत्वात् स्वप्नलोकसञ्चारतात्पर्येणैव उभौ लोकाउनुसरतीत्युक्तम् । तत् स्फुटं वित्रियते स्वप्नो भूत्वेत्यादिना । अतः मध्ये स्थितं ध्यायतीवे- स्येतद् स्वप्नविषयमेव । न च तस्यामवस्थायां जामदवस्थायामिव मुख्यं ध्यातृत्वादि वर्तते । अत इवशव्द इति ज्ञेयम् । 'प्रकृतेः क्रियमा- णानं त्यादिम्मृत्यर्थश्च श्रीमद्भाध्ये कधकरणे उक्तः -- "यच्च प्रकृतेः क्रियमाणानीत्यादिन गुणानामव कर्तृत्वं स्मर्थत इति तत्सांसारिक- प्रवृत्तित्वस्य कर्तॄना सत्त्वरजस्तमांगुरणसंसर्गकृता, न स्वरूपप्रयुक्तेति प्राप्तः प्रतविकेन गुरणानामेव कर्तृतत्युच्यते । तथा च तत्रैवांच्यते- कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु, इति । तथा तत्रैवात्मनञ्च कर्तृत्वमभ्युपेत्यांच्यते- १३७ तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न सपश्यति दुर्मतिः ॥ इति । अविष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् || इत्यधिष्ठानादिदैवपयन्तसापेक्षे सत्यात्मनः कर्तृत्त्रे य आत्मानमेव केवलं कर्तारं मन्यते न स पश्यतीत्यर्थः” इति । एवं सर्वप्रमाणसिद्धमात्मनः कर्तृत्वमपहृत्य सर्वंप्रमाणविरुद्धमन्तः- करणकर्तृत्वं यत् कल्पितं तदसम्भवीत प्रदर्शितम् । अथ सर्वप्रमाण- सिद्धमन्तःकरणस्य नाम्नैव प्रख्याप्यमानं करणत्वमपह्नु वानेन यदुच्यते “मनीव्यतिरिक्तस्य सङ्कल्पनाश्रयत्न 'मनसा वै' इति श्रुतेरुचरितार्थ- “त्वान्” इति तत् आत्मनः सङ्कल्पाश्रयत्वात् श्रुतेर्मुख्याध॑त्वे सम्भवति उपचारस्यान्याय्यत्वाच्चानुपपन्नम् । यच आत्मा मोक्षसाधनकृतिमान् तत्फलान्वयित्वात्, सम्मतवत् इत्यनुमानबूपएम् – “आरोपितानारोपितसाधारणकृतिमत्त्वे साध्ये इष्टा- १०