सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः असतः साधकत्वम् देरिव तत्प्रतीतेरप्यवर्जनीयत्वात् । प्रतिबिम्बस्थलंऽपि प्रतिहतनयनर श्मिम ह्यस्य बिम्बस्यैव प्रतिबिम्बत्वेन तस्य सत्यत्वात् । तेन साक्षाचक्षु- र्ग्राह्यबिम्बानुमाने कस्यचिदसतो हेतुत्वाभावाच्च । ज्यू ब्रूमः एवं सर्वत्र स्थितावांप क्वचिदसतोऽपि साधकत्वमस्तीति कृत्वाऽपि । तेन को भवती लाभः । दर्शनबलात् तत्र तथा कामं भवतु । असतो लिङ्गस्थ तु लिङ्गिप्रमाजनकत्वं न हि कुत्रचिदस्ति | तेन दृश्यत्व- लिङ्गेन मिथ्याभूतन प्रपञ्चमिथ्यात्वानुमानं प्रमात्मकं नैव भवितुमर्हति । भवदुदाहृतं "गया सत्वत्वाविशेषेऽनि चक्षुषा रूपमेव ज्ञाप्यते न रसः तथैवासत्यत्वाविशेषेऽपि वर्थ्यादिना सत्यं ज्ञाप्यते न तु धूमाभासा- दिना" इतीदं वाचस्पतिवचनमेवात्र प्रमाणम् । तदअतः साधकत्व- साधनप्रयासः सर्वो निष्फल इति ज्ञेयम् । यदत्र‘कथमसतः सज्जायेतांत श्रुत्या, नासतो दृष्टवादिति सूत्रेण, शश- विष णादिभ्यः सदुत्पत्त्य दशनादिति भाष्येण च विरोधः ।' इत्याशङ्कय “तेषां तुच्छे जनकत्वनिषेचपरत्वात् । अस्माभिश्च तुच्छे जनकत्वस्यानु- तत्वात् । तस्मात् सद्विवित्त त्वं साधनम्” इति समाधानमुत्तम् तद्नुप- पन्नम् । तथा हि । कथमसतः सज्जा येतेत्यत्र सदसच्छन्दौ तावत् परस्परविरुद्धःथवाचिनौ । तत्रासच्छन्दो यदि 'तुच्छवचनः' तर्हि सच्छच्दस्तदन्यवचनः | जायमानस्च तेजोऽबन्न दिरूपस्य प्रपञ्चस्य ईदृशं सत्त्वं सम्प्रतिपन्नं कृत्वा प्रपञ्चस्य यत् कारणं तत् सदेव भवतुमर्हति बासदत्ययमुपदेशोऽत्र क्रियते । एवं कार्यप्रपञ्चगतसत्त्वानुरोधेन अव- वर्चमा कारणग्तं सत्वं प्रपञ्चम्य यादृशं तादृशमेव भवितुमर्हति । कार्यकारणयाः स'लक्षण्यनियमात् । न हि हेम्नी विकार: मृद्धटो भवति मृद्धिकारो वा हेमघटः । तथा च ब्रह्मप्रपञ्चरेकरूपस्यैव सत्त्वस्य प्रामारि ऋत्वात् सद्विविक्तत्वं साधनमित्येतन्न युज्यते तुच्छस्यैव सद्वि- विक्तत्वात् । तस्य च जनकत्वस्यानिष्टत्वात् ।