२६ विशिष्टाद्वैतसिद्धिः अधमः पनाशया उपन्यस्यमानं विश्वमथ्यात्वानुमान आभाससमं तद्पं चेत्येतद् दुरपलपम् । 4 = यच्च प्रातिभासिकत्वं व्रजेतरज्ञानबाध्यत्वं प्रतिभासमात्रशरीरत्वं वा। आधे साधे देहात्मैक्ये व्यभिचारः । अप्रयोजकत्वं च । द्वितीये । दृष्टिसृष्टिमतेन सिद्धसाधनम्’ इति, तत्र त्रुमः। देहात्मैक्ये नास्ति व्यभिचरः"अन्योऽन्तर आत्मा विज्ञानमयः ’ 'समानं वृक्ष परिषस्वजाते’ ’वायुरनिलममृतम् । 'अथेदं भस्मान्तं शरीरम् । ‘न जायते म्रियते वा विपश्चिन्’ ‘न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।' 'अन्तवन्त इमे देह नित्यस्योक्ताः शरीरिणः' इत्यादि भिस्तस्य बाधितत्वात् । यत एव साक्षिबाधोद्धारप्रकरणे ‘ननु तर्हि देहात्मैक्यज्ञानं उष्णं जलमित्यादि ज्ञानं च प्रमा स्यान् । व्यवहार दशायां विषयाबाधात् इति चेन्न । आब्रह्मज्ञानमबाधितत्वेन तेषामपि घटादिज्ञानसमानयोगक्षेमत्वात् इति शङ्कासमाधानमुखेन देहात्मैक्य- ज्ञानस्य प्रमात्वप्रतिपादनमत्यन्तमसमञ्जसम्। मम देह इति स्वानुभवेन, ज्ञातृत्वजडत्वादिकृत वैलक्षण्यहेतुकानुमानेन, आगमवचनशतेन च बाधस्य स्फुटत्वान् व्यवहारदशायां विपयावाधोक्तेरयुक्तत्वात् । साधत च “एक आत्मन शरीरे भावात्" इत्यत्र सूत्रभाष्ये देहातिरिक्तत्व- मात्मनः । पूर्वकाण्डे एव चायं व्यतिरेकः सिद्धः । अन्यथा देहान्तरानु भाव्यफलेषु अधिकारानुपपत्तेः। जलप्एयवाधश्च ‘उष्णत्वमग्न्यातप- सम्प्रयोगात् शैत्यं हि यत्सा प्रकृतिर्जलस्य" इति व्यवहारदशायां सुप्रसिद्धः । बाधितत्वे कथमनुवृत्तिरिति चेत् कामलादिदोषानुवृत्तौ शह्पीतिमभ्रमानुवृत्तिवत् देहसम्बन्धस्य द्रोपस्यानुवर्तमानस्वात् अवि- वेकिनां भ्रमानुवृत्तिः। विवेकिनां तु सा नैवास्तीति ज्ञेयम्। अतो व्यभिचारः सर्वथा दुर्वचः। अप्रयोजकत्वं मिथ्यात्वेऽपि तुल्यम् । सिद्धसाधनवादञ्च न युक्तः । जलाहरणादिव्यवहारानुपपत्तिप्रसङ्गात् ।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१४१
दिखावट