दशयत्वम १४ पास्तम् । स्वतःस्फुरणतायाः शुक्तिरूष्यादावभावतः । स्फुरणविषय त्वस्य ब्रह्मण्यसिद्धेः” इति, तत्रोच्यते । विषयस्य मिथ्यात्वप्रयोजकं स्फुरणं स्वमिथ्यात्वे न प्रयोजकान्तरमपेक्षते, आश्रयस्य चतुषन्व- प्रयोजकं रूप स्वचाक्षुषत्व इव । तथा च विषयत्वतादात्म्यान्यतर सम्बन्धेन स्फुरणं मिथ्यात्वे तन्त्रमिति ब्रह्मकबलीकारेऽपि तत् क्षमत इति तत्तात्पर्यमिति । यदुच्यते साहसमात्रेण स्वतःसिद्धं ब्रह्म ति । तत्र का सिद्धिर्नाम ? संशयद्यगोचरत्वमात्रं तुच्छेऽपीति संशय विपर्ययासहनिश्चयगोचरत्वमेत्र सेत्यकामेनाप्यभ्युपेयम् । तथा च दृश्य देवमवर्जनीयम् मिथ्यात्वं तु नास्तीति व्या यभिचारो वश्रलेपायते । सिद्धिश्चयं कस्य ? कि केवलस्य ब्रह्मण एव, नस्माकम् , अथवाऽस्मा कम् ? आद्य अस्माकमसिद्धं तत् गगनकुसुमप्रायमेव स्यात् । अन्ये, योऽयमस्माकमहम्प्रत्ययः अहमिदं करोमि घटमहं जानामि, ममेदं सुखावहमित्यादिः स एव किं स्वतःसिद्धिरित्यभिमतः उतान्या काचित् सा ? आद्य विशिष्ट स्थैव स्वतःसिद्धिरुक्त स्यात् । अन्त्ये का। सेति निरूपणीयम् । तत्र केवलचिद्विषया वा तपा वा कथमपि सा न । भवतीति वक्ष्यामः। यच्च शब्दजन्यवृत्तिविषयत्वमेव दृश्यस्वम् । तच्च वेदान्तजन्य वृत्तिविषयत्वेऽपि शुद्धस्य नस्तोति न व्यभिचार इति, तदप्ययुक्तम् । यागादिजन्यतया शब्दैकसमधिगम्ये स्वर्गेऽव्याप्तेः । धूमेऽयोगोलका वृत्तित्वस्येव वृत्तौ शब्दजन्यत्वस्य दृष्टान्ते व्याप्यतावच्छेदकत्वाग्रहण। च। एतेन सप्रकारकवृत्तिविषयत्वमेव दृश्यत्वमित्यपि प्रयुक्तम् । सप्रकारक- त्रस्य व्याप्त्यनन्तर्भूतत्वात् । तेन निष्प्रकारकज्ञानविषयीभूते शुद्धे न व्यभिचारः इति स्ववचनेन निष्प्रकारकज्ञानविषयोभूतत्वप्रकारक वृत्तिविषयत्वस्य शुद्ध स्वयमेव भवता प्रदर्शनाच्च । नह्यत्र अनृज्वपि । अर्थान्तरं विवक्षितं, वक्तु’ शक्यं वा।।
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१३०
दिखावट