सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ विशिष्टाद्वै तसिद्धिः प्रथमः श्रत्या दृश्यत्वं न सम्भवतीति वाच्यम् । तस्याश्चक्षुरादीन्द्रियजन्यपुन्य याविषयत्वपरत्वात् । ‘मनसैवानुद्रष्टव्यम्’ ‘तस्मिन् दृष्टे परावरे ।’ इति भृत्यैव तस्य दृश्यत्वोक्तेः । ब्रह्मादिपदजन्यप्रतीतिविषयत्वस्यानुभवसिद्ध त्वेन श्रुत्याऽदृश्यत्वस्य बोधयितुमशक्यत्वाच्च । अथेदं दृश्यत्वमुपहित- स्यैव, न शुद्धस्य । उपहितस्य च मिथ्यात्वमिष्टमेवेति चेन् एवं वदतः कोऽभिप्रायः । किमुपाधिवदुपधेयमपि मिथ्यैवेति । तथा चेन् शून्यवादप्रसङ्गः । अथ तत् स्वरूपेण न मिथ्या अपि तूपहितत्वरूपेणेति चेत्, अनेन किमुक्त ' भवति ? किमुपाधेरेव मिथ्यात्वं, नोपधेयस्येति उतान्यत् किमपि । नाद्यः। तद्वदेव वृत्ति मिथ्यात्वमेव, न तु प्रपञ्चमिथ्यात्वम् । स तु ब्रह्मवदेव सत्य इत्यपि सुवचत्वात् । नान्त्यः । तदनिरूपणात् । यच्च शुद्धस्य न दृश्यत्व मिति, तत्प्रत्यक्षविरुद्धं स्वव्यवहारविरुद्धं च । शुद्धपदेन भवत्येव ह्यनुपहितप्रत्ययः । स कथमपह्वयेत । शक्यं हि ‘घटपदेन केवलं घटो न प्रतीयते । अपि तु वृयुपहित एव। तथा च तथाविधस्यैव तस्य मिथ्यात्वम् । केवलस्य तु वृस्यविषयत्वात्सत्यत्वमेव’” इत्यपि वक्त म् । अथोच्यते—शुद्धपदेनानुपहितं न प्रतीयते । तद्घटितस्य तु वाक्यस्य लक्षणयाऽन्योऽथ वाच्यः। यथा शुद्ध स्वप्रकाशमित्यस्य अशुद्धत्वं अस्वप्रकाशत्वव्यापकमित्यर्थः । तथा चाशुद्धवव्या वृत्त्या शुद्धे स्वप्रकाशता पर्यवस्यति–इति । प्रत्यक्षापलापस्तावदत्र स्थित एव । कुटिलार्थान्तरवर्णनमतिरिच्यते । सत्यमेवोक्त नीलकण्ठदीक्षि- तेन–‘येनऽन्यथा कर्तुमिदं यतन्ते क्लेशेन तेषां हि स एव दण्डः इति । अथ शुद्धे स्वप्रकाशता पर्यवस्यति इति भवदुके कोऽर्थः ? यद्यत्रानुपहितस्य न प्रतीतिस्तर्हि प्रलापमात्रमिदं स्यात् । अथ प्रतीति र्भवति तर्हि अनेन स्वव्यवहारेणापि विरूढं भवतः शुद्धस्य वृत्ति विषयत्वशून्यत्वाभिधानम् । व्याख्याता ब्रह्मानन्दोऽप्यत्र कुटिलतराण्य