सामग्री पर जाएँ

पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः विश्वमिथ्यात्वानुमानम् । एवमेव व्यवहरन्ति । यथा चोदनासूत्रे शबरस्वाम–न च निश्चित- मवगम्यमानमिदं मिथ्या स्यात्’ इति । “नाभाव उपलब्धेः” इति सूत्रे च स्थितमेव । ननु शुक्तिरूष्यादिकमपि दृश्यत एव । न च तत्सत्यम् । अतोऽनुपपन्न एवायं व्यवहार इति चेत्, तर्हि स्फीतालोकमध्यवर्तिनं घटं पश्यताऽपि भवता घटोऽस्तीति न प्रतिपत्तव्यम्, यस्माद् दृश्यते तस्मा दस्तीति दर्शनास्तित्वयोः सम्बन्धानभ्युपगमान् । अथाभ्युपगम्यते, तर्हि पूर्वोक्तो लोकशास्त्रव्यवहारः समञ्जस एव । तथा च दृश्यत्वात् सत्यत्वे साधनीये मिथ्यावसाधनं विपरीतमेव । ननु सम्यग्दर्शनविषयत्वं सत्यत्वे हेतुः, तदिह न विवक्षितमिति चेत्, तर्हि असम्यग्दर्शनविषयत्वात्मकं दृश्यत्वं हेतुरिति स्यात् । तथा च हेतोरसिद्धिः । न हि भ्रमात्मकदर्शन- विषयत्वं घटादिषु वर्तते । न हि घटादि विषयस्य दर्शनस्य शुक्ति- रजतादिविषयस्येव भ्रमत्वं प्रतिपक्षे सम्प्रतिपन्नम् । तत् पश्चात् साधयिष्यत इति चेत् निराकरिष्यते च । ततः किमिदानीम् । यदि शुक्तिरूप्ये यादृशं दृश्यत्वं । ताहशमिह हेतूक्रियते तर्हि तत् पत्रे नास्ति । अथ ततो व्यावृत्तं तर्हि तद् दृष्टान्ते नास्ति पक्षे विपरीत साधकं च । अथोभयसाधारणं तर्हि दर्शितलोकशास्त्रज्यवहरविरोध स्तदवस्थः । दर्शनादिशब्दनां सम्यग्दर्शनादिष्वेव रूढेः । अत एव हि । नास्ति घटोऽनुपलब्धेः यत् प्ररयनं न तद् व्यभिचरति, यद् व्यभिचरति न तत् प्रत्यक्षम्’ इति शास्त्रकृत स्वरसवाही । व्यवहारः । धूमे द्रव्यत्वस्येव प्रकृते केवलदृश्यत्वस्य व्याप्यतान चच्छेदकत्वं चेत्यपारमत्र दौस्स्थ्यम् । (३) प्रथममिथ्यात्वम् अथ परिष्कृतं साध्यादि विशिष्य परामृशेम । तत्र साध्यं मिथ्यात्वं विवृण्वन् ‘मिथ्याशब्दोऽनिर्वचनीयतावचनः' इति पञ्चपादिका