राजा-अस्तु तावदेवं यथाह भवान् । पुत्रसंवरणे किमिव कारणं तत्रभवत्याः।
विदूषकः-मा वुड्ढिं मं राआ परिहरिस्सदि त्ति। [मा वृद्धां माम् राजा परिहरिष्यतीति]
राजा-कृतं परिहासेन । चिन्त्यताम् ।
विदूषकः-को देवरहस्साईं तक्कइस्सदि [को देवरहस्यानि तर्कयिष्यति ?]
कञ्चुकी-(प्रविश्य ) जयति जयति देवः। देव ! च्यवनाश्रमात् कुमारं गृहीत्वा तापसी सम्प्राप्ता देवं द्रष्टुमिच्छति ।
राजा-उभयमप्यवलम्बितं प्रवेशय ।
उपारूढगर्भलिङ्गत्वेनादर्शनेऽपि गर्भः स्यात्सन्ततिः प्रसूता भवेदिति । तासां देवाङ्गनानां चरितानि आचरणानि प्रभाववैशेष्यात् गूढानि भवन्ति। गुप्तं हि तासां चरितमिति सामान्यवाक्यस्य तस्या अपि चरितं गुप्तमदृष्टलिङ्गमस्तीति बोधस्य समर्थनाय प्रदानादर्थान्तरन्यासः ।
राजा-अस्तु तावदेवं यथाह भवान् , यथा भवता उक्तं यत्तस्या देवयोनित्वात् गूढाचारः तद्भवतु यथार्थम् । किन्तु पुत्रसंवरणे तस्यां मयोत्पादितस्य तनयस्य गोपने तत्रभवत्या उर्वश्या किमिव कारणम् ? को नु खलु हेतुस्तस्या मनसि भवेद्यतस्तया मया अविज्ञातरूपेण पुत्रो रक्षितः ? अत्र पुत्रसंवरणकार्यस्य कारणमार्गणयत्नदर्शनात् विबोधो नाम निर्वहणसन्ध्यङ्गं प्रतिदर्शितम् यदुक्तं "विबोधः कार्यमार्गणम्" इति रूपके ।
विदूषकः-समुचितं प्रत्युत्तरमलभमानो माणवकः उपहासं करोति- राजा वृद्धां मामिति मत्वा मा परिहरिष्यति । राजानो हि नूतनामेव तरुणीमुपभोक्तुं कामयन्ते । तथा च "प्रसूतिर्गतयौवना" इति न्यायात् यदि राजा ज्ञास्यति यन्मया सुतमुदपादि तदा सः वृद्धां गतयौवनां मां मत्वा परिहरेदिति एवं मा भूदिति हेतुं विचार्य गोपितस्तया ते तनय इति । अत्र हासः ।
राजा-कृतं परिहासेन । उपहासेनालम् । चिन्त्यताम् को नु खलु हेतुर्भवेदिति । अत्र कृतमित्यस्य योगे करणम् ।
विदूषकः-देवरहस्यानि देवत्वावच्छिन्नानां रहस्यानि गोप्यानि को नाम तर्कयिष्यति अनुमानबलाच्चिन्तयितुं पारयेदित्यर्थः ।
कञ्चुकी-(प्रविश्य) जयति जयति देवः । देवेति महाराजसम्बोधनम् । च्यवनाश्रमात् च्यवनस्य महामुनेराश्रमात् कुमारमेकं बालकं गृहीला काचन तापसी इह सम्प्राप्ता आयाता तथा च देवं महाराजं द्रष्टुं मिलितुं इच्छति ।
राजा-उभयमपि तापसीकुमारौ अविलम्बितं सत्वरं प्रवेशय इहानय ।