पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३२
विक्रमोर्वशीये


 कञ्चुकी- नामाङ्कितो दृश्यते । नात्र मे वर्णविभावसहा दृष्टिः ।

 राजा- तदुपश्लेषय शरं यावन्निरूपयामि ।

 विदूषकः- किं भवं विआरेदि ? [ किं भवान् विचारयति ?]

 राजा-शृणु तावत्प्रहर्तुर्नामाक्षराणि ।

 विदूषकः-अवहिदो म्हि । [अवहितोऽस्मि ।]

 राजा-(वाचयति)

  उर्वशी सम्भवस्यायमैलसूनोर्धनुष्मतः ।
  कुमारस्यायुषो बाणः संहर्ता द्विषदायुषाम् ॥ ७ ॥

 विदूषकः-दिट्ठिआ संताणेण वट्ठदि महाराओ।

[दिष्ट्या सन्तानेन वर्धते महाराजः।]

 राजा-कथमेतत् । सखे! अनिमिष्या वियुक्तोऽहमुर्वश्या । न


 कञ्चुकी-नामाङ्कितो दृश्यते । यस्यायं बाणस्तस्य नाम लिखितं दृश्यते । किन्तु अत्र मे वर्णानां विभावः परिज्ञानं तत्सोढुं शक्या दृष्टिर्न । मम वार्धक्यात् दृष्टेः निर्बलत्वात् नाहं विभावयितुं पारयामि किमत्र लिखितमिति ।

 राजा-भवतु-शरमुपश्लेषय समीपं स्थापय यावदहं निरूपयामि विभावयामि वाचयामि नामाक्षराणि ।

 विदूषकः-किं भवान् विचारयति?

 राजा-शृणु तावत् विहङ्गस्य प्रहर्तुः घातकस्य नामाक्षराणि ।

 विदूषकः- अवहितोऽस्मि दत्तचित्तोऽस्मि ।

 राजा-(वाचयति)

 उर्वशीति-इलायाः गोत्रापत्यं पुमान् ऐलः पुरूरवाः तस्य सूनोः तनयस्य उर्वशीतः संभवः उत्पत्तिर्यस्य सः तस्य उर्वशीपुत्रस्य धनुष्मतः धनुर्धारिणः आयुषः तदाख्यस्यायुर्नामकस्य कुमारस्य द्विषदां शत्रूणामायुषाम् जीवनस्य संहर्ता घातकः अयं बाणः अस्ति इति शेषः । स खलु बाणः विक्रमोर्वश्योः तनयस्यासीत् । आयुर्नाम कुमारः शत्रूणामायुषामाहर्तेति विरोधालङ्कारः । अनुप्रासश्च । इलानाम्नी पुरूरवसो माता । अत्र बीजार्थोपगमात् सन्धिर्नाम निर्वहणसन्ध्याङ्गमुक्तम् । अनुष्टुप् वृत्तम् ॥ ७ ॥

 विदूषकः-दिष्ट्या सौभाग्यमिदं यत् महाराजः सन्तानेन पुत्रेण सन्तत्या वर्धते सौभाग्यशालीति । अङ्केऽस्मिन्नेव विदूषकेणोक्तमासीत् यदनपत्यत्वं सर्वं राज्ञो भद्रम् । किन्तु इदानीं ससन्तानत्वं राज्ञः परिज्ञाय महानन्दो विदूषकस्येति दिष्ट्या गम्यते।