पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२८
विक्रमोर्वशीये

 कथय किं खल्वत्र कर्त्तव्यम् ।

 विदूषकः-(उपेत्य) भोः ! अलं एत्थ घिणाए । अवराही सासणीओ [ भोः! अलमत्र घृणया । अपराधी शासनीयः।]

 राजा-सम्यगाह भवान् । धनुर्धनुस्तावत् ।

परिजन:-जं भट्टा आणवेदि [ यद्भर्ता आज्ञापयति ]

 

(इति निष्कान्तः।)

 राजा-न दृश्यते हि विहङ्गाधमः ।

  विदूषकः-इदो इदो दक्खिणन्तरेण चलिदो सउणिहदासो।

[इतइतो दक्षिणान्तरेण चलितः शकुनिहताशः।]


तत्प्रतिमं तत्सदृशं तस्य मणेः रागो लालिमा तस्य लेखा तनिर्मितं वलयं करोति । अतिवेगेन भ्रमितालातमण्डलवत् प्रभाशालीत्यर्थः। महता वेगेन भ्रामितं ज्वलत्काष्ठं रक्तमिव सर्वत्र दृश्यते तथैव सवेगं तस्य पक्षिणः आकाशे रक्तमणिग्रहणपूर्वकं वर्तुलकारं गमनं मणिनानुस्यूतेन रागेण निर्मितं वलयं विदधातीत्यर्थः । अत्रोपमालङ्कारः । “अलातमुल्मुकमिति" द्वे अर्धदग्धकाष्ठस्य पर्यायाविति कोषः।

 उपजातिवृत्तम् ॥ २॥

 इदानीम् रे वेधक ! कथय किं नु खलु कर्तव्यम् मणिप्राप्त्यर्थं विधेयमित्यर्थः ।

 विदूषकः-(उपेत्य तत्रागत्य ।) भो ! अलमत्र घृणया पक्षिणः वधः कथं कार्यः इति मत्वा घृणा दया अत्र न विधेया; यतः अपराधी जनः शासनीयः अवश्यं दण्डनीयः । राजधर्मश्चायम् “दण्ड्यांश्चैवाप्यदण्डयन्" इत्यनेन अपराधिनं यो राजा नानुशास्ति स पापभाक् भवति । अत्र घृणाऽकरणे अपराधिदण्डस्योचितत्वप्रदर्शनस्य हेतुत्वाद्वाक्यस्य काव्यलिङ्गमलङ्कारः । कारुण्यं करुणा घृणा इति कोषः।

 राजा-सम्यगाह भवान् युक्तमभिहितं भवता । धनुर्धनुः तावत् । अत्र दण्ड्यदण्डनरूपवर्तनस्य शास्त्रोक्तत्वात् नीतिर्नाम नाव्यालङ्कार उपन्यस्तः । "नीतिः शास्त्रेण वर्तनम्"।

 परिजन:-यद्भर्त्ता स्वामी आज्ञापयति ।

(इति धनुरानेतुं निष्क्रान्तः)

 राजा-स विहेगषु अधमो नीचश्चोरत्वादिति न दृश्यते क्व गत इति ।

 विदूषकः स शकुनिहताशः विहगाधमः इत इतः अनेन मार्गेण दक्षिणान्तरेण दक्षिणया दिशा चलितः।