पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२६
विक्रमोर्वशीये

प्रदेशेषु विहृत्य प्रतिनिवृत्तः । प्रविश्य नगरमिदानीं स्वकार्यानुशासनेन प्रकृतिमण्डलमनुरञ्जयन् राज्यं करोति । असन्तानत्वं वर्जयित्वा अस्य न किमपि शोचनीयम् । अद्य तिथिविशेष इति भगवत्योः गङ्गायमुनयोः सङ्गमे देव्या सह कृताभिषेकः साम्प्रतमुपकार्यामुपविष्टः । तद्यावदलङ्क्रियमाणस्याङ्गानुलेपनमाल्यभागी भ्रातेव भवामि । (इति परिक्रामति)

 (नेपथ्ये ) हा धिक् हा धिक् । एष तालवृन्तपिधानं निक्षिप्य नीयमानोऽप्सरोविरहितेन मौलिरत्नतायां योजितो मणिरामिषशङ्किना गृध्रेणाक्षिप्तः।]

 विदूषकः-(आकर्ण्य ) अच्चाहिदं अच्चाहिदं । परमबहुमदो क्खु तव वअस्स संगमणीओ णाम चूडामणी । अदो क्खु असमत्तणेवत्थो एव्व तत्तभवं आसणादो उट्ठिदो । ता पासपरिवत्ती होमि । ( इति निष्क्रान्तः) [अत्याहितम् अत्याहितम् । परमबहुमतः खलु तव वयस्य ! सङ्गमनीयो नाम चूडामणिः । अतः खलु असमाप्तनेपथ्य एव तत्रभवान् आसनतः उत्थितः । तत् पार्श्वपरिवर्ती भवामि ।]


कुसुमादीनां गुम्फनम् तयोः भ्रातेव भागित्वात् अंशेनोपभोगकर्तृत्वात् राज्ञः यथा भ्राता भ्रातुः उपभोग्यस्य अंशोपभोगी भवति तथैव तदर्थोपस्थापितानां पदार्थानां भोक्ता भवामि । इति उक्त्वा परिक्रामति इतस्ततः परिभ्राम्यति ।

 नेपथ्ये वचनमिदम् अत्र बहुषु अर्थसूचकेषु नेपथ्ये अभिधानात् चूलिकाख्यम् अर्थोपक्षेपकम् । तल्लक्षणन्तु यथोक्तमेव । हा धिक् हा धिक् इति कष्टसूचकमव्ययपदम्, वीप्सा च कष्टातिरेकद्योतनाय ।

 एष इति-एषः तालवृन्तम् एव पिधानम् आवरणम् निक्षिप्य दूरीकृत्य अनावृत एव नीयमानः अप्सरोविरहितेन उर्वशीवियुतेन राज्ञा मौलिरत्नतायां शिखामणित्वे योजितः उपयुक्तः अयं मणिः आमिषशङ्किना मांसखण्डोऽयमिति मन्यमानेन गृध्रेण आक्षिप्तः उत्प्लुत्य नीतः। सङ्गमनीयस्य मणे: "प्रभालेपीति" पद्ये(४१६१) रक्तत्वर्णनात् गृध्रेण आमिषलवोऽयमिति शङ्कया गृहीतः इति भावः । अत्र रक्तवसाधर्म्यात् मणौ आमिषलव इति भ्रमेण ग्रहणधीः, अतः अत्र भ्रान्तिमान् अलङ्कारः “साम्यादतस्मिन् तद्बुद्धिः भ्रान्तिमान् प्रतिभोत्थितः" इति लक्षणात्।

 विदूषकः-(आकर्ण्य श्रुत्वा) अत्याहितम् अत्याहितम् महद् भयमुपस्थितम् इत्यर्थः । हे वयस्य ! तव सङ्गमनीयः सङ्गमे हेतुभूतः चूडामणिः