(चर्चरी)
सुरसुन्दरि जहणभरालस पीणुत्तुङ्गघणत्थणि |
मृगोऽयं कृष्णसारः। कवीनामिदं सम्मतं यत् वने वनाधिष्ठात्री वनशोभा वनदेवता निवसति । तस्यां नायिकात्वारोपः । तया च कटाक्षः पातितः किमर्थमिति वर्षासमये नूतनं बालतृणं वर्धते तत्सौन्दर्यविलोकनप्रवणचेतसा तया पातितः कटाक्षः इव कृष्णसारोऽयं सारङ्गो दृश्यते । कृष्णसारपदम् तु मृगपक्षे कृष्णसारा च्छविर्यस्येति अर्थं व्यनक्ति अत्र कर्मधारयसमासः । कटाक्षपक्षे तु कृष्णो यः सारः नयनाभ्यन्तरवर्तिनी कनीनिका तत्सदृशशोभासमेत इति बोधः । कृष्णसारच्छविरित्यत्र रङ्गनाथेन कृष्णमृगवच्छविरित्येवमुपमितसमासो विहितः । एवं कृते सारङ्गोपमेयस्य मृगोपमानेन सादृश्यकल्पनात् स्वौपम्यदोषः रसापकर्षकः सन् उपमेयमकालिदासीयेति कल्पयति । यतोऽधस्तात् “सारङ्गमासीनमभ्यर्थये" इति नायकोक्तो सारमङ्गे यस्येति सारङ्ग इति व्युत्पत्त्यैव कृष्णसारमृगविशेषजातिमत्त्वं पुरैव ख्यापितं भवति अतः कृष्णसारपदे कृष्णा च सारा कर्बुरिता श्रेष्ठा वेति व्यास एव रुचिरः । एवञ्चेह कृष्णशारेति पाठस्तु नूनं साधीयानेव भवेत् किन्तु तदा कटाक्षपक्षे तदन्वयो न भवतीति सुधीभिर्विचार्यम् ।
अत्र कटाक्ष इव सारङ्गो दृश्यते इति सम्भावनादुत्प्रेक्षालङ्कारः । “सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यदिति" लक्षणयोगात् । कृष्णसारपदस्य द्व्यर्थित्वात् "श्लेषश्च । अनुष्टुब् वृत्तम् ॥ ५७ ॥
(चर्चरी)
अभिज्ञानप्रदर्शनपूर्वकं याचते सारङ्गं प्रियाप्रवृत्तिं राजा ।
सुरसुन्दरीति-सुरसुन्दरी देवाङ्गना जघनदेशस्य भरेण स्थूलत्वात् भारेण अलसा मन्दगतिः, पीनौ मांसलौ उत्तुङ्गौ 'उन्नतौ अत एव घनौ निबिडौ स्तनौ यस्याः सा तादृशी स्थिरयौवना अनश्वरयुवावस्था, तनुशरीरा कृशाङ्गी, हंसस्य गतिरिव गतिर्गमनं यस्याः सा, मृगस्य लोचने इव लोचने यस्याः सा, गगनवन्निर्मलताविशिष्टत्वेनोज्ज्वले कानने वने भ्रमन्ती मम प्रिया उर्वशी त्वया