पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५०
विक्रमोर्वशीये

 सहजन्या-(सखेदम् ) सहि चित्तलेहे ! मिलाअमाणसतवत्तक- सणा दे मुहच्छाआ हिअअस्स असत्थदं सूचेदि । ता कहेहि मे अणिविदिकारणं जेण दे समाणदुक्खा होमि । [ सखि चित्रलेखे! म्लायमानशतपत्रकृष्णा ते मुखच्छाया हृदयस्यावस्थतां सूचयति । तत्कथय मेऽनिवृतिकारणं येन ते समानदुःखा भवामि ।]

 चित्रलेखा-सहि ! अच्छरावावारपज्जाएण तत्तभअदो सुजस्स उबट्ठाणे बट्टंती पिअसहीए विणा वलिअं उक्कंठिदम्हि । [ सखि ! अप्सराव्यापारपर्यायेण तत्रभवतः सूर्यस्योपस्थाने वर्तमाना प्रियसख्या विना बलवदुत्कण्ठितास्मि ।]

 सहजन्या-सहि ! जाणामि वो अण्णोण्णगदं प्पेमम् । तदो तदो। [ सखि ! जानामि युवयोः अन्योन्यगतं प्रेम । ततस्ततः।]

 चित्रलेखा-तदो इमेमुं दिवसेसुं को णवो वुत्ततो वट्टदि त्ति प्पणिधाणट्टिदाए मए अञ्चाहिदं उवलद्धम् । [ततः एतेषु दिवसेषु


 सहजन्या-(सखेदम् ) सखि चित्रलेखे ! म्लायमानानि शतपत्राणि नलिनीदलानि तद्वत्कृष्णा श्यामा ते मुखच्छाया मुखसौन्दर्यं हृदयस्य अवस्था चिन्ताग्रस्ततां अशान्ति वा सूचयति प्रकटयति । यतस्ते मुखे श्यामत्वं दरी दृश्यते तेन अनुमीयते यत्ते चेतसि खास्थ्यं नेति । तत्कथय मे मह्यम् ते अनिवृते: अस्वस्थतायाः कारणं येन ते समानदुःखा भवामि । तव दुःखहेतुं निशम्य अहमपि सखीजनोचितं करिष्यामीति भावः । अनेन सहजन्यागतचित्रलेखाविषयिणी प्रीतिः सूच्यते।

 चित्रलेखा-सखि! अप्सरसां व्यापारः कर्म तस्य पर्यायेण क्रमेण तत्रभवतः सूर्यस्य उपस्थाने सेवायां वर्तमाना अहं प्रियसख्या उर्वश्या विना बलवत् महदुत्कण्ठिताऽस्मि खिन्नाऽस्मि ।

 "रागे त्वलब्धविषये वेदना महती तु या । संशोषिणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः ॥"

 अत्र गात्राणां संशोषकत्वात् उत्कण्ठितत्वं युक्तमेव चित्रलेखायाः ।

 सर्वाः अप्सरसः क्रमेण भगवन्तमंशुमालिनं सेवन्त इति पौराणिकी वार्तात्रानुसन्धेया।

 सहजन्या-सखि ! जानामि युवयोः उर्वशीचित्रलेखयोः अन्योन्यगतं पारस्परिकं प्रेम । ततस्ततः किं जातमिति शेषः।

 चित्रलेखा -ततः पश्चादेतेषु दिवसेषु को नवो वृत्तान्तः समाचारः वर्तते इति प्रणिधाने विचारे स्थितया वर्तमानया मया अत्याहितं महाभयम् उपलब्धम् ।