(नेपथ्ये सहजन्याचित्रलेखयोः प्रावेशकी आक्षिप्तिका )
पिअसहीविओअविमणा सहिसहिआ व्वाउला समुल्लवइ । |
[प्रियसखीवियोगविमनाः सखीसहिता व्याकुला समुल्लपति । |
॥ चतुर्थोऽङ्कः॥
अथ तत्रभवान् कविवरेण्यः नायकनायिकयोः प्रेमाङ्कुरम् वर्धयितुमीहमानः सङ्गीतमाधुर्यमधुरं चतुर्थमङ्कमादाय नायिकायाः सख्योः सहजन्याचित्रलेखयोः प्रवेशपिशुना आक्षिप्तिकानामधेयां गीतिं समुपन्यस्यति ।
(नेपथ्ये सहजन्याचित्रलेखयोरुवंशीसख्योः प्रावेशिकी प्रवेशं सूचयन्ती आक्षिप्तिका तदाख्या गीतिः।)
प्रियायाः सखी तस्याः वियोगो विश्लेषः तेन विमना खिन्ना अन्यया च सख्या सहिता व्याकुला विह्वला सती काचन सखी सूर्यस्य कराः मरीचयस्तेषां स्पर्शेन विकसितानि प्रफुल्लानि तामरसानि पद्मानि यस्मिन् तादृशे सरोवरस्योत्सङ्गे तटे समुल्लपति विलापं कुरुते इत्यर्थः ।
प्रियसखीविरहदूनचेताः सहजन्यासमेता चित्रलेखा विभाकरकिरणजालैः विकसितकमले सरस्तीरे विलपतीति भावः । अत्र सविशेषणसरोवरोत्सङ्गे इति ग्रहणेन मित्रकिरणसम्पर्कसजातप्रफुल्लताशोभितपद्मसदृशं मत्सख्याः प्रियसंश्लेषसमुद्भावितं सुखं कदा नु संपत्स्यते इति एवं विलापहेतुर्ध्वन्याते । पुनश्च सरसः ग्रहणेन राज्ञः गभीरत्वं व्यज्यते, तत्रापि च वरपदप्रदानेनोत्कर्षता व्यक्तैव । उत्सङ्गपदस्य ह्यर्थित्वात् राज्ञः अङ्के इत्यप्यर्थों वुध्यते । सूर्यकरेत्यत्र सूर्यपदग्रहणेन राज्ञः प्रतापित्वं व्यक्तम् , करपदे च श्लेषः तेन राज्ञः पाणिस्पर्शेन विकसितानि तामरसानि मुखनयनचरणादिकमलसदृशान्यङ्गानि यस्मिंस्तादृशे सरोवरोत्सङ्गे प्रियाङ्के कदा नु मत्सखी सुखभाजनं भवित्रीति खेदहेतुः । अत्र तामरसपदेन अरुणिमसौन्दर्यसाधर्म्यग्रहणपूर्वकं मुखादीनां अवयवानां अध्यवसायः । पुनश्च सरःपदेन गाम्भीर्यादिसादृश्यं मत्वा उदात्तस्य राज्ञः अध्यवसायः। तथा च उर्वशी प्रियोत्सङ्गे पाणिस्पर्शलालिता प्रियसख्याः चित्रलेखायाः विरहविदूना अपि कदा नु सौख्यं लप्स्यते इति खेदहेतुं प्रदर्शयन्ती चित्रलेखा तस्याः प्रियसखीविरहदुःखं 'विसारयत्सुखमनुपमं कालते इति सूच्यते । अनेन च चित्रलेखायाः सत्सखीत्वं गम्यते । विकासपदेन च सात्विकभावोत्पत्तिः व्यज्यते।