पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४१
तृतीयोऽङ्कः

देव्या दत्त इति यदि व्यापारं व्रजसि मे शरीरेऽस्मिन् ।
प्रथमं कस्यानुमते चोरितमयि मे त्वया हृदयम् ॥ १७ ॥

 चित्रलेखा-वअस्स ! णिरुत्तरा एसा । मम संपदं विष्ण- विअं सुणीअदु । [वयस्य ! निरुत्तरा एषा। मम साम्प्रतं विज्ञापितं श्रूयताम् ।]

 राजा-अवहितोऽस्मि ।’

 चित्रलेखा-वसन्ताणं तरं उण्णसमए भअवं सुज्जो मए उवअरिदव्वो। ता जधा इअं मे पिअसही सग्गस्स ण उक्कंटेदि तहा वअस्सेण कादव्वम् । [वसन्तानन्तरमुष्णसमये भगवान् सूर्यो मया उपचरितव्यः । तद्यथा इयं मे प्रियसखी स्वर्गस्य


 देव्या इति-अयि प्रिये ! देव्या दत्तः अस्मीति ज्ञात्वा यदि त्वं अस्मिन् मदीये शरीरे व्यापारं चुम्बनालिङ्गनादिकं व्रजति करोषि चेत् प्रथमं परस्परावेक्षणसमय एव कस्यानुमते कस्य अनुमत्या त्वयेदं मे हृदयं चोरितम् स्ववशतां नीतम् । यदि त्वमित्थं वदसि यदिदं ते आलिङ्गनाद्यारम्भोऽनुमतः क्रियेत तदा वद केनानुमता त्वं मे हृदयं स्वायत्तं कृतवती? अनेन राज्ञः भावोऽभिव्यज्यते।

 तथा च राज्ञा देव्या दत्त इति उर्वशी कृतहासस्य प्रत्यभियोगः (Retort) कृतः। राज्ञश्च वाक्पाटुत्वं सूच्यते ।

 अत्र देवीप्रसङ्गेन अन्तरायितस्य बीजस्य पुनरनुसन्धानात् आक्षेपाख्यं सन्ध्यङ्गम् इति काटयवेमः । व्यापार व्रजसीत्यनेन हावो नाम नायिकालङ्कारः स्फुटः । यदुक्तं "भ्रूलतादिविकारस्तु सम्भोगेच्छाप्रकाशकः । भाव एवाल्पमंत्रस्य विकारो हाव उच्यते।" इयं चार्याजातिः ।

 चित्रलेखा -वयस्य ! निरुत्तरा एव । प्रत्युत्तरं दातुमसमर्था इत्यर्थः । अत्र पारस्परिकप्रीतिः सङ्गमोत्कण्ठा च बलवतीति वस्तु व्यज्यते तथा चात्र विकृतं नाम नायिकाऽलङ्कारः प्रोक्तः, यदुक्कं दर्पणे-“वक्तव्यकालेत्यवचो व्रीडया विकृतं मतम्"।

 साम्प्रतं मम विज्ञापितं वचनं श्रूयताम् ।

 राजा-अवहितोऽस्मि । भवद्वचनं श्रोतुं दत्तचित्तोऽस्मि ।

 चित्रलेखा-वसन्तानन्तरं समाप्ते तु वसन्तसमये उष्णसमये च प्राप्ते भगवान् सूर्यः मया उपचरितव्यः सेव्यः । अप्सरसः खलु भगवन्तं अंशुमालिनं नृत्यादिना पर्यायेण सेवन्त इति अत्र पौराणिकी कथा अनुसन्धेया । सविस्तरमुपरिष्टाद्वक्ष्यते । अतः भवद्भिरनुमता अहं गन्तुमना अस्मि ।