पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३०
विक्रमोर्वशीये

 उर्वशी-(सवैलक्ष्यस्मितम्) महंतो खु एदस्स इमिस्सिं बहुमाणो। [ महान् खल्वेतस्यैतस्यां बहुमानः।]

 चित्रलेखा-अइ मुद्धे ! अण्णसंकंतप्पेमाणो णाअरा भारिआए अहिअं दक्खिणा होंति । [अयि मुग्धे! अन्यसंकान्तप्रेमाणो नागरा भार्यायामधिकं दक्षिणाः भवन्ति । ]

 देवी-एदस्स वदस्स अअं पहावो जं एत्तिकं वददि अज्जउत्तो।[ एतस्य व्रतस्यायं प्रभावो यदेतावद् वदत्यार्यपुत्रः।]

 विदूषकः-विरमदु भवं । ण जुत्तं दे सुहासिदं प्पच्चक्खिदुं। [विरमतु भवान् । न युक्तं ते सुभाषितं प्रत्याख्यातुम् । ]

 देवी-दारिआओ! आणेध ओवहारिअं जाव हम्मगदे


सति पृथक्पदत्वं माधुर्यम्" तथा चापरुषवर्णघटितत्वात् सुकुमारता नाम शब्दगुणः । तथा चात्र प्रसादाख्यः अर्थगुणः यदाह पण्डितेन्द्रः “यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः" । तथा च परमभावगाम्भीर्यपरिपूर्णवात् भावगौरवं च ।

 वंशस्थवृत्तम् । जगणतगणजगणरगणानामस्तित्वात् ॥ १३ ॥

 उर्वशी-(सवैलक्ष्यस्मितम्-राज्ञस्तया सहैतादृशव्यवहारमवलोक्य विस्मिता सती सस्मिता आह) एतस्यामस्य राज्ञो महान् खलु बहुमानः आदरः।

 चित्रलेखा-अयि मुग्धे अनभिज्ञे! अन्यासु संक्रान्तं लग्नं प्रेम येषां तादृशाः अन्यनायिकामुग्धहृदया नागराश्चतुरा नायकाः भार्यायामधिकं सुतरां दक्षिणाः अनुकूलाश्चाटुवादिनो भवन्ति । येषां चेतः अन्यललनासु लग्नं ते स्वीयगृहिण्याः सुतरां छन्दानुवर्तिनो भवन्तीति भावः । अनेन तादृशां स्वभावोद्घाटितः । तथा च तस्या बहुमानेऽपि स्वप्रियसख्यां उर्वश्यां तस्य तादृश एव प्रणय इति बोधनेन उर्वश्याः मनसि शान्तिसम्पादनायालमिदं वाक्यम् ।

 देवी-सासूयेयं किञ्चित् खव्रतप्रभावं प्रख्यापयति-एतस्यैव व्रतस्य अयं प्रभावः सामर्थ्य यदेतावत् मधुर आर्यपुत्रो वदतीति । अत्र नायिका संरब्धवचसः प्रयुज्यमानवात्तोटकं नाम गर्भसन्ध्यङ्गमुक्तं भवति ।

 विदूषकः-नृपं प्रति-विरमतु भवान् व्रतनिषेधात् इति शेषः। देवी प्रति न युक्तं तवेदं सुभाषितं “आर्यपुत्रं पुरस्कृत्य कोऽपि व्रतविशेषो मया सम्पादनीयः" इति मधुरभाषितं प्रत्याख्यातुं विरुद्धं वक्तुम् । सः इत्यं मधुरं वक्ति त्वं च तत्प्रत्याचरसि तत् तवेदं युक्तं न, यतः तस्य उत्साहभङ्गो कदाचिद्भवेत् ।

 देवी-दारिकाश्चेट्यः ! यूयमानयत उपनयत औपहारिकं देन्नोद्देशेन