पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२७
नृतीयोऽक्तः

 देवी-(उपगम्य ।) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]

 परिजन:-जेदि जेदि देवो। [जयति जयति देवः।]

 विदूषक-सोत्थि भोदीए । [ स्वस्ति भवत्यै । ]

 राजा-स्वागतं देव्यै । (तां हस्तेन गृहीत्वोपवेशयति ।)

 उर्वशी-ट्ठाणे इअं वि देवीसद्देण उच्चारीअदि । ण हि किंवि परिहीअदि सचीदो ओजस्सिदाए । [स्थाने इयमपि देवीशब्देनोच्चार्यते । न हि किमपि परिहीयते शचीतः ओजस्वितया।]


यद्दूर्वीयाः अङ्कुरं तेन लाञ्छितं भूषितमलकं यस्याः सा देवी व्रतस्यापदेशेन मिषेण उज्झिता परित्यक्ता गर्ववृत्तिः मानिता यस्य तेन वपुषा शरीरेणैव सा मयि प्रसन्ना मुक्तकोपा लक्ष्यते प्रतिभाति ।

 यतः तया धवलमुत्तरीयं परिधत्तम् , केवलं मङ्गलमयान्येव भूषणानि धृतानि, केशेषु दूर्वाङ्कुरमेव न्यस्तमिति कारणैः प्रतीयमानेन परित्यकमानेन देहेनैव सा मयि प्रसन्नेति दृश्यते।

 अत्र पूर्वार्धस्य उत्तरार्धे हेतुत्वात् काव्यलिङ्गमलङ्करणम् “हेतोः वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्" । वपुषैव लक्ष्यते अर्थात् सा मनसा तु प्रसन्नैवेति दण्डापूपिकान्यायेन अर्थस्य प्रतीयमानत्वात् अर्थापत्तिः । अत्र माधुर्याख्यो गुणः ।

 सितांशुकेत्यनेन निर्मलवस्त्रत्वात् व्रतौचित्यं सौभाग्यं च सूचितम् । मङ्गलमात्रभूषणेत्यनेन सामान्यत्वं व्यक्तम् । पवित्रदूर्वाङ्कुरेत्यनेन स्वल्पमण्डना वर्तते तेन चाधिकसौन्दर्यं दृष्टिपथमवतरतीति व्यङ्ग्यम् । अनेनैव सौन्दर्येण कोपस्य परित्यागात् तस्याः राज्ञि दाक्षिण्यम् द्योत्यते । अत्र सित्तांशुकादिषु केवलमेकस्यैव प्रदानात् व्रतचारित्वं सूचितं भवेत् किन्तु तदर्थमेव विशेषणत्रयप्रदानात् समुच्चयालङ्कारोऽपि । यदुक्तम्-“समुच्चयोयमेकस्मिन् सति कार्यस्य साधके । खलेकपोतिकान्यायात्तत्करः स्यात्परोऽपि चेत् ।” वंशस्थं वृत्तम्-जगणतगणजगणरगणसत्त्वे वंशस्थाख्यं वृत्तम् ॥ १२ ॥

 देवी-(उपगम्योपसृत्य) जयतु जयतु महाराजः । मङ्गलवचनमिदम् ।

 परिजन:-जयति जयति देवः । अयमपि पूर्ववत् ।

 विदूषकः-भवत्यै स्वस्ति । अत्र स्वस्तियोगे चतुर्थी ।

 उर्वशी-स्थाने युक्तमेवैतत् यदियं देवीतिपदेनोच्चार्यते राज्ञा कथ्यते । कुत इत्याह-इयं राज्ञी शचीतः इन्द्राण्याः किमपि ईषदपि ओजखितया सौन्दर्येण तेजसापि वा न परिहीयते न्यूना अस्ति । रूपवेजोमाहात्म्येन न कथमपि इन्द्राण्या सा हीना विद्यते अत एव देवीविपदेन बोध्यः; राज्ञः अस्यां बहुमानो युक्तः एव । स्थाने "युक्त द्वे साम्प्रतं स्थाने" इत्यमरः ।