पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११६
विक्रमोर्वशीये

 राजा-(निमित्तं सूचयन्)

वचोभिराशाजननैर्भवानिव गुरुव्यथम् ।
अयमास्पन्दितैर्बाहुराश्वासयति दक्षिणः॥९॥

 विदूषकः :-ण क्खु अण्णहा बम्हणस्स वअणं भोदि । [न खल्वन्यथा ब्राह्मणस्य वचनं भवति ।]

(राजा सप्रत्याशस्तिष्ठति ।)

(ततः प्रविशत्याकाशयानेन कृताभिसरणवेषा उर्वशी चित्रलेखा च ।)

 उर्वशी-(आत्मानं विलोक्य ) सहि, रोअदि दे मे अअं मोत्ता-


 राजा-(निमित्तं शकुनं सूचयन् )

 वचोभिरिति-आशाजननैराशाकारकैर्वचोभिः उक्तिभिः यथा दक्षिणः मदीयेच्छानुसारी भवान् मामाश्वासयति तथैव अयं दक्षिणोऽपसव्यः बाहुः आस्पन्दितैः स्फुरणैः गुरुव्यथम् असह्यवेदनं मामाश्वासयति मम समाधानं विदधाति । यथा त्वं सुमधुरवचोभिः विरहव्यथाविधुरं मां संस्थापयसि तथैव प्रियासङ्गमरूपभाविशुभसूचकस्पन्दनैरयं दक्षिणो मे वाहुर्मां समाश्वासयति ।

 दक्षिणदेहाङ्गस्य स्पन्दनं शुभसूचकमिति सम्मतं शकुनविद्भिः । शुभशकुनानां शुभमेव फलं, यतः "आवेदयति प्रत्यासनमानन्दं अग्रजातानि शुभानि निमित्तानि" इति । "पुंसां सदा दक्षिणदेहभागे, स्त्रीणां तु वामावयवे प्रजातः ....."स्पन्दः फलानि प्रदिशत्यवश्यम् ।"

 इह च दक्षिणपदे श्लेषः । विदूषकपक्षे परच्छन्दानुवर्तित्वम् दक्षिणत्वं बाहुपक्षे च वामेतरत्वम् । अत्र चोभयोः सादृश्यं आश्वासनाख्यव्यापारसाधर्म्यात् । किन्त्वत्रास्य न विशेषचमत्काराधायकत्वम् । अत्र तत्त्वार्थकथनात् मार्गों नाम गर्भसन्ध्यङ्गमुक्तं भवति । अनुष्टुब् वृत्तम् ॥ ९ ॥

 विदूषकः-ब्राह्मणस्य वचनं अन्यथा मिथ्या न भवति इति स्वीयमहिमानं शुभशकुनोपबृंहितं द्रढयति ।

(राजा सप्रत्याशः उर्वशीसमागमं प्रतिपालयन् तिष्ठति ।)

 (ततः आकाश एव यानं तेन मार्गेण, कृतः अभिसरणवेषः अभिसारिकायाः वेषो यया सा तादृशी उर्वशी चित्रलेखा च प्रविशति ।)

 या स्वयं स्वकामवितारमभिसरतीति अभिसारिका-"हित्वा लज्जां समाकृष्टा मदनेन मदेन वा । अभिसारयते कान्तं स्वयं वा साभिसारिका" ॥ अथवा "कान्तार्थिनी तु या याति सङ्केतं साभिसारिका " इति ।

 उर्वशी (आत्मानं विलोक्य) अवसिते तु तासां नेपथ्यविधाने कान्तानां xxxx स्पृहा यदात्मनो रूपनिमालनं कुर्वते।