राजा-अयि सखि!
पर्युत्सुकां कथयसि प्रियदर्शनां ता-
मार्तिं न पश्यसि पुरूरवसस्तदर्थाम् ।
साधारणोऽयमुभयोः प्रणयो यतस्व
तां कौमुदीमिव समागमयेन्दुबिम्बे ॥ १५ ॥
चित्रलेखा-(उर्वशीमुपेत्य ) हला! इदो एहि । णिभुअदरं भीसणं मअणं पेक्खिअ पिअदमस्स दे दूदिम्हि संवुत्ता। [ सखि ! इत एहि । निभृततरं भीषणं मदनं प्रेक्ष्य प्रियतमस्य ते दूत्यस्मि संवृत्ता।]
राजा-अयि सखि !
पर्युत्सुकामिति-प्रियं दर्शनमवलोकनं यस्याः सा एतादृशी प्रियदर्शना मनोहारिणी । ताम् त्वं पर्युत्सुकां मयि उत्कण्ठित्तां कथयसि तथा च पुरूरवसः मम तस्यै इति तदर्थामार्तिं पीडां न पश्यसि । त्वं निवेदयसि यत् मनोहररूपा सा मनोजेन भृशं पीडिता किन्तु अहमपि तथैवास्मीति नावबुद्धं त्वया इत्यर्थः। यतः आवयोः पारस्परिकी समुत्कण्ठा विद्यते तदा त्वं कथं नावाम् सम्मेलयसीति- अयं प्रणयः प्रेम उभयोरावयोः साधारणः सामान्यम् । अतः कौमुदीं चन्द्रिकां इव तां इन्दुबिम्बे मयि समागमय सम्मेलय । तदर्थं यतस्व । यथा इन्दुबिम्बं चन्द्रिकायाः साहजिकं स्थानं तथैव कौमुदीसदृशायां तस्यां विश्लेषितायां स्वस्थानान् , त्वं तदीया सखी भूत्वापि कथं नावाम् समागमयसि । तदर्थं त्वया यत्नः कार्यः इति तां अभ्यर्थयते राजा।
अत्र उर्वश्याः नयनानन्दकरत्वेन कौमुद्या सह साधर्म्यप्रदर्शनात् उपमालङ्कृतिः। इन्दुबिम्बेति प्रदानेन स्वस्य तदीयप्रेमपात्रत्वम् गम्यते । इह नायकस्य प्रणयपूर्णाया धृतेः सत्त्वात् द्युतिसमाख्यं प्रतिमुखसन्ध्यङ्गम् , यदुक्तं धानञ्जये- "धृतिस्तज्जाद्युतिर्मता” इति । ममेति पदमप्रयुज्य पुरूरवस इति अन्यपुरुषसम्बोधनेन स्वीयमाहात्म्यं प्रकाशयन् “ममेति" कथनेन आगम्यमानं निर्लज्जत्वं वारयति । यत्नस्य साधारणप्रणयहेतुकत्वादत्र काव्यलिङ्गमलङ्कारः । वसन्ततिलका वृत्तम् ॥ १५॥
चित्रलेखा-(उर्वशी तिरस्करिणीसमावृतामुपेत्य) सखि ! इतः अस्मात् स्थानात् एहि गच्छ । निभृततरं अदृश्यं भीषणं परमनिर्दयं मदनं प्रेक्ष्य ते तव प्रियतमस्य विक्रमस्य दूती प्रियासङ्गमयित्री मदनसमाचारदात्री च अस्मि अहं संवृत्ता । मया नाम मदनेन भृशं पीडितस्य तव प्रियस्य प्रियाह्वानरूपं दूतीत्वमपि स्वीकृतम् । अत्रास्मीतिपदं उत्तमपुरुषवाचकं अव्ययम् ।
इह नायकस्य नायिकाविषये दूतिप्रयोगः । दूत्याः गुणास्तावदाह विश्वनाथपण्डितः-