पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
विक्रमोर्वशीये

 उर्वशी-(सस्पृहमवलोक्य)। णं वत्तव्वं ठाणान्तरगदो सग्गो त्ति । ( विचार्य ) हला, कहिं क्खु सो आवण्णाणुकम्पी भवे ? [ ननु वक्तव्यं स्थानान्तरगतः स्वर्ग इति । ( विचार्य) हला! क्व नु खलु स आपन्नानुकम्पी भवेत् ? ]

 चित्रलेखा-पदस्सिं णन्दणवणेक्कपदेसे विअ पमदवणे ओदरिअ जाणिस्सामो। [एतस्मिन् नन्दनवनैकप्रदेश इव प्रमदवने अवतीर्य ज्ञास्यामः ।]

(उभे अवतरतः)

 चित्रलेखा-(राजानं दृष्ट्वा सहर्षम् ) सहि ! एसो पढमोदिदो विअ भअवं चन्दो कोमुदिं विअ अवेक्खदि तुमम् । [सखि ! एषः प्रथमोदित इव भगवान् चन्द्रः कौमुदीमिव अवेक्षते त्वाम् ।]


यथाहामरः-"पुण्यं तु चार्वपि” इति । अत्र हि निर्जीवस्यापि नगरस्य सजीवसदृशव्यापारशालित्वसमारोपेण च शिखाभरणभूषणतोऽलौकिकत्वसमारोपे च भिन्नकार्यवात् अन्योन्यनिरपेक्षतया स्थितत्वात् उत्प्रेक्षाद्वयस्य संसृष्टिरलङ्कारः । आङ्ग्लमतानुसारं तु निर्जीवे सजीवत्वारोपणात् चेतनत्वोपचाराख्यं(personification इति तदाख्यं) अलङ्करणम् । अत्र नायिकायाः विरहपीडितायाः दूरतो नायकगृहदर्शनेन वर्धितत्वात् कौतूहलस्य, उद्दीपनाख्यो विभावो व्यज्यते, स्वयमभिसरन्त्याः उर्वश्याः पुरतः राजर्षिपदस्वीकारेणात्र नायकगतोत्तमत्वप्रदर्शनेन रतेरधिकतयोद्दीपनत्वात् । राजर्षेश्च तस्येति विशेषणप्रदानेन अलौकिकत्वं किङ्करीकृतदयादाक्षिण्यादिगुणवृन्दत्वं प्रियसख्या उर्वश्याः कान्ते नायके सहचर्या सूचितम् ।

 उर्वशी-सस्पृहमवलोक्य-कौतूहलवशाद् नायकप्रासादोपलब्धिहेतुकं सस्पृहत्त्वम् । ननु अवधारणे । प्रदेशोऽयं स्थानान्तरगतः स्वर्ग इति अन्योऽयं स्वर्ग एव इति वक्तव्यम् । स्वर्ग एवायम् । अन्यत् स्थानं स्थानान्तरम् । सखि ! कुत्र कस्मिन् स्थाने आपन्नानां पीडितानामनुकम्पी सहायकः भवेत् । क्व प्राप्स्यते स महाराजः आर्तेषु परमदयालुरिति । स्वर्ग एवेत्यत्र गम्योत्प्रेक्षा ।

 चित्रलेखा-एतस्मिन् नन्दनवनस्य एकप्रदेशे एकविभाग इव प्रमदवने अवतीर्य ज्ञास्यामः । नन्दनवनसमसुन्दरेऽस्मिन् प्रमदवने क्व लभ्यः स महाराजः इति वयं ज्ञास्यामः । अत्र च सखीच्छानुसारिणी चित्रलेखा प्रमदवनम्, नन्दनैकदेशं वर्णयति । इह च "इष्टनष्टानुसरणम् परीसर्पश्च कथ्यते' इति वचनात् परिसर्पाख्यं प्रतिमुखसन्ध्यङ्गम् ।

(उभे आकाशाद् अवतरतः)

 चित्रलेखा-(राजानं तत्रैव प्रमदवने दृष्ट्वा सहर्षम् सानन्दम् ) सखि ! एष पुरो दृश्यमानः प्रथमोदित इव भगवान् चन्द्रः द्वितीयाचन्द्र इव कौमुदीसदृशीं त्वाम-