ण्डओ भमरसंहविहडिदेहिं कुसुमेहिं किदोवआरो विअ अत्तभवदो वट्टदि, ता अणुग्गहीअदु एसो। [एष कृष्णमणिशिलापट्टसनाथः अतिमुक्तालतामण्डपो भ्रमरसङ्घविघटितैः कुसुमैः कृतोपचार इवात्रभवतो वर्तते, तदनुगृह्यतामेषः ।
राजा-यदभिरोचते भवते । (इत्युपविशतः।)
विदूषकः-दाणिं इहासीणो ललिदलदालोहिअमाणलोअणो उव्वसीगदं उत्कंठं विणोदेदु भवं । [इदानीमिहासीनो ललितलतालोभ्यमानलोचन उर्वशीगतामुत्कण्ठां विनोदयतु भवान् !]
राजा-(निःश्वस्य)
बहुकुसुमितास्वपि सखे नोपवनलतासु नम्रविटपासु ।
चक्षुर्बध्नाति धृतिं तदङ्गनालोकदुर्ललितम् ॥ ८ ॥
पट्टः प्रस्तरः तेन सनाथः सुशोभितः अतिमुक्तलतायाः माधवीलतायाः मण्डपः वितानम् भ्रमराणां सङ्घः समूहैः विघटितानि विकसितानि कुसुमानि तैः कृतः उपचारः सत्कारः येन सः एतादृश एव वर्तते ।
तत्र प्रमदवने माधवीलतामण्डपे एकः सुन्दरः उपवेशार्हः प्रस्तर आसीत्तदुपरि च वायुवेगेन कानिचित्कुसुमान्यपि अधःपातितानि आसन् । तेनोत्प्रेक्ष्यते यदिदं वासन्तीलतावितानम् विकसितैः कुमुमैः पूजार्हस्य भवतः स्वागतं करोति ।
अत्र सप्रस्तरस्य लतामण्डपस्य वर्णनेन 'अत्र भवान् किञ्चिद्विश्रान्तुमर्हतीति' गम्यत तथा सुन्दरं सुवासितमिदं स्थलमिति च सूच्यते । तदेषः लतामण्डपः किञ्चिद्विश्रम्य अनुगृहणीयः भवता इति भावः ।
अत्र चोत्प्रेक्षालङ्कारः । अतिमुक्तलता तु माधवीलता “अतिमुक्तः पुण्ड्रको वासन्ती माधवी लता" इत्यमरवचनात् ।
राजा-यदिति--यथा त्वमिच्छसि तथैवावाम् कुर्व इति-आगच्छ । उपविशावोऽत्र किञ्चित्कालमिति ।
(इत्युपविशतः)
विदूषकः-इदानीमिति-इदानीमधुना इह वासन्तीलतामण्डपे आसीनः विश्रान्तः, ललिताः रुचिरा या लतास्ताभिः लोभ्यमाने हार्यमाणे लोचने नयने यस्य सः एतादृशो भवान् उर्वशीगतां तद्विषयिणीमुत्कण्ठां लालसां विनोदयतु । इह सुन्दरं दृश्यं पश्यन् भवान् आत्मविनोदं कर्तुमर्हतीति भावः ।
राजा -बहुकुसुमितास्विति-हे सखे मित्र ! बहूनि कुसुमानि यासु ताः बहुकुसुमिताः तासु प्रसूनभरसमेतासु अपि नम्रविटपासु कोमलशाखासु उप-