पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
विक्रमोर्वशीये

 सूतः-आयुष्मन् ! पूर्वस्यां दिशि महता रथवेगेन उपदर्शितः शब्दः ।

  अयञ्च गगनात्कोऽपि तप्तचामीकराङ्गदः ।
  अधिरोहति शैलाग्रं तडित्वानिव तोयदः ॥ १५ ॥

 अप्सरसः-( पश्यन्त्यः ) अम्मो, चित्तरहो। [ अहो चित्ररथः ।]

(ततः प्रविशति चित्ररथः।)

 चित्ररथः-( राजानं दृष्ट्वा सबहुमानम् ) दिष्ट्या महेन्द्रोपकारपर्याप्तेन विक्रममहिम्ना वर्धते भवान् ।


ब्राह्मः कल्पौ तु तौ नृणाम्" इति वचनात् । एतादृशां कल्पानामपि शतं त्वं राज्यं कुर्या इति मङ्गलाशासनम् । शतपदेनात्र केवलं बहुत्वविवक्षा ।

 सूत-आयुष्मन् ! राज्ञः सम्बोधनमेतत् । पूर्वस्यां दिशि महता आत्यन्तिकेन रथवेगेन उपदर्शितो जनितः शब्दः श्रूयते इति शेषः । पूर्वस्यां दिशीति पदप्रदानेन कोऽपि ऐन्द्रोऽयमिति सूच्यते, कुतः तस्यां दिशि इन्द्रस्याधिपत्यात् 'प्राच्यै दिशि इन्द्राय नमः' इति वचनाच्च । अयमिति-अयं पुरोदृश्यमानः कोऽप्यविज्ञातः, तप्तं चामीकरं सुवर्ण तन्निर्मितमङ्गदं बाहुभूषणं यस्येति पूतसुवर्णतुल्यदीप्तिमद्बाहुभूषणधारी जनः शैलाग्रं हेमकूटशिखरमधिरोहति आरोहतीत्यर्थः । यथा तडित्वान् विद्युद्युतस्तोयदो मेघः शैलाग्रमधिरोहति । कोऽप्ययं तेजस्वीति बोध्यते । 'चामीकरं जातरूपं महारजतकाञ्चने' इत्यमरः । तप्तपदग्रहणेन शुद्धत्वं विशेषदीप्तिमत्त्वं च सूच्यते । उपमानभूतस्य तोयदस्य तडित्वानिति विशेषणदानम् उपमेये विद्यमानेन तप्तचामीकराङ्गदत्वेन उपमानेऽपि साम्यार्थमङ्गीकृतम् । अत्र मेघादिपदव्यावृत्तिपूर्वकं तोयदपदबहुमानेनास्य चित्ररथस्य विक्रमाय धन्यवादप्रदायित्वं इन्द्रसन्तोषप्रसन्नतादिसमाचारदातृत्वं च व्यज्यते यथा तोयदे तोयदातृत्वम् । अत्रोपमालङ्कारः । अनुष्टुब् वृत्तम् ॥ १५ ॥

 अप्सरस:-(पश्यन्त्यः तं निरीक्षमाणाः कथयन्ति।) अहो चित्ररथोऽयमागच्छति । चित्ररथस्तु गन्धर्वाणां राजा।

(ततः प्रविशति चित्ररथस्तत्रायातीत्यर्थः।)

 चित्ररथः-(राजानं पुरूरवसं सबहुमानं पूज्यदृष्ट्या सादरं दृष्ट्वा कथयति) दिष्ट्या इति उत्सवे, आह्लादसूचकं पदम् । महेन्द्रोपकारपर्याप्तेन महेन्द्रोपरि अपि उपकारं कर्तुं पर्याप्तेन समर्थेन विक्रममहिन्ना पराक्रमातिशयेन भवान् वर्धते विजयतु इत्यर्थः । अत्र लोडर्थे लट् । अत्र महेन्द्रपदम् साकूतम्-यः सर्वेषामिन्द्रः, सोऽपि महेन्द्रस्तमपि उपकर्तुं पर्याप्तोऽसीति महेन्द्रपदग्रहणेन राज्ञः पराक्रमातिशयं व्यजयन् परिकरालङ्कारो राजते "विशेषणैर्यः साकूतैरुक्तिः परिकरः स्मृतः" इति काव्यप्रकाशकृतः।