सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
विक्रमोर्वशीये

 चित्रलेखा - ण महिन्देण, महिन्दसरिसाणुभावेण राएसिणा पुरूरवसेण । [न महेन्द्रेण, महेन्द्रसदृशानुभावेन राजर्षिणा पुरूरवसा ।]

 उर्वशी - (राजानमवलोक्यात्मगतम्) उवकिदं क्खु दाणवेन्दसंरम्भेण । [उपकृतं खलु दानवेन्द्रसंरम्भेण ।]

 राजा - (उर्वशीमवलोक्यात्मगतम्) स्थाने खलु नारायणमृषिं विलोभयन्त्यस्तदूरुसम्भवामिमां विलोक्य व्रीडिताः सर्वा अप्सरस इति । अथवा नेयं तपस्विनः सृष्टिरित्यवैमि । कुतः-

  अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
   शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।


 चित्रलेखा - महेन्द्रेण तु नोद्धृतासि किन्तु महेन्द्रसदृशानुभावेन इन्द्रतुल्यप्रभावेण राजर्षिणा पुरूरवसा अभ्युपपन्नासि, "अनुभावः प्रभावे स्यात् निश्चये भावसूचके" इति विश्वः।

 उर्वशी- राजानमवलोक्य -(पश्चादुच्यमानं राजविषयकमस्तीति तात्पर्यम्) आत्मगतम् परैरश्रुततया मनस्येव केवलं चिन्यते- यथा साहित्यदर्पणे-"अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम्" स्वगतम् आत्मगतं च पर्यायौ । उपकृतं उचितमेव कृतं दानवेन्द्रेण केशिना प्रदत्तेन संरम्भेण त्रासेन- यतः एतादृशस्य राजर्षेः दर्शनमहोत्सवः प्राप्तः । यदि केशी इत्थं नाचरिष्यत्तदा राजर्षिदर्शनमपि नाभविष्यत् अतस्तेन दैत्येनानुगृहीतास्मि । इयं प्रेम्णः प्रथमावस्था-"श्रवणादर्शनाद्वापि मिथः संरूढरागयो" रितिवचनात् पारस्परिकप्रेक्षणस्यापि पूर्वरागेऽङ्गीकारात् प्रेम्णः आदिमेयं दशा । “आदौ वाच्यः स्त्रिया रागः" इत्युक्तेरुवर्श्याः पूर्वरागवर्णनम् ॥ अतःपरं तयोर्मजिष्ठारागः प्रवर्तते ।

 राजा- उर्वशीं प्रेक्ष्य स्वगतमेवाह - स्थाने खलु युक्तमेवैतत् यत् नारायणं तपस्यन्तं ऋषिं महामुनिं विलोभयन्त्यः कामवासनाभिः प्रलोभयन्यः अप्सरसः सर्वा एव दिव्याङ्गनाः इमां पुरो दृश्यमानां विलक्षणां उर्वशीं तदूरुसम्भवां तस्य महामुनेः जङ्घातः समुत्पन्नां विलोक्य निरूप्य व्रीडिताः लजां प्राप्ता इति ।तपस्यतः नारायणस्य महामुनेः तपश्चर्याभङ्गार्थं कान्ताभिनयैः प्रलोभयितुमिच्छन्त्यः सर्वाः अप्सरसः तदीयोरुप्रदेशात् तदैव समुत्पन्नामिमामुर्वशीं प्रेक्ष्य 'यस्योरुतः एतादृशी रमणीया रमणी समुद्भूता तस्य ततः किमस्माकं प्रलोभनैरिति' विचार्य लज्जिता बभूवुरिति नानुचितम्, अस्याः तादृक्सौन्दर्यविशेषशालित्वात् । स्थाने इति युज्यते "युक्त द्वे साम्प्रतं स्थाने" इत्यमरः । इति सरलार्थः। अथवा ईदृशीमलौकिकरूपवतीं सृष्टिं समुत्पादयितुं कथमर्हो भवेत् कोऽपि अविज्ञातकाममीमांसस्तपस्वी-इत्येवाह-अथवा इति वितर्के । इयमुर्वशी तपस्विनः कस्यापि संयतचेतसो मुनेः सृष्टिः समुत्पन्ना नास्तीत्यवैमि जानामि तर्कयामि वा ।