पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
विक्रमोर्वशीये

यथार्थाक्षरः सत्यमेव वर्तते । स सत्यमेव सर्वेषां रक्षकः त्रिभुवनं स्वाच्छानुसारं चालयितुं प्रभवन्नीश्वरो विद्यत इत्यर्थः । यश्च नियमिताः रुद्धाः प्राणादिवायवः यैस्तैर्नियमितप्राणादिभिर्मुमुक्षुभिः संसारादसारान्मोक्षाकांक्षिभिः योगिभिः अन्तःकरणे एकाग्रेण मनसा मृग्यते अन्विष्यते । यं योगिनः प्राणादीन् आयम्य स्थिरेण चेतसा ध्यायन्तः अन्तर्हृदयगुहायामन्वेषयन्तीत्यर्थः । यश्च महादेवः स्थिरा अव्यभिचारिणी भक्तिः स्थिरः निश्चलो योगश्चित्तैकाग्र्यं ताभ्यामेव सुखपूर्वकं लब्धुं शक्यो वर्तते । यः शिवः चित्तं सम्यक्तया निरुद्ध्य ध्यानावस्थितेनैव मनसा केवलमहर्निशं श्रद्धया स्मरणेनैव यतिभिः सौकर्येण लभ्यो विद्यत इत्यर्थः । एतादृशः परेशः स शिवः वः शं करोतु इति सूत्रधारनटीनटादिविविध-पात्राणां सामाजिकानां च मङ्गलमनुसंदधती नान्दी समाप्तिं प्राप्ता ।

 सरलार्थ:-यं महेश्वरं वेदान्तिनः शास्त्रेषु भूमिगगने आवृत्त्य विद्यमानं सर्वव्यापिनमद्वितीयं प्राहुः । अस्य जगतः उत्पत्तिस्थेमभङ्गैककारणे यस्मिन् महादेवे शिवातिरिक्तदेवतासु अप्रयोज्यः ईश्वरेति शब्दः यथार्थ एव विद्यते, स एव सत्यं स्वीयैर्गुणैरीश्वरपदयोग्यो वर्तते इति भावः । यश्च शङ्करः अन्तर्मनसि अन्यविषयव्यावृत्तेन चेतसा प्राणादीन्निरुद्ध्य यतिभिरन्विष्यते स योगिनामप्यगम्यः इति तात्पर्यम् । नितान्तमव्यभिचारिण्या भक्त्या योगेन च मुनिभिर्यथाकथमपि प्राप्यः स शिवः जनानां भद्रं विदधातु-इति सरलार्थः ॥ वेदान्तो हि नामोपनिषत्पर्यायभूतं जीवेश्वरजग त्स्वरूपविवेचनात्मकं शास्त्रम् । जगतोऽस्य कः कर्ता. किंस्वरूपकः, तस्य च जीवस्य कः सम्बन्धः, कथं स लभ्यः, कस्तस्योत्पादयितेति विविधाः प्रश्नाः यस्मिन् शास्त्रे मीमांस्यन्ते तच्छास्त्रं वेदान्तशास्त्रमित्यभिधीयते । उपनिषदामनेकत्वेन वेदान्तेषु इति वहुवचनम् । एकपुरुष इति - स शिवः एक एवास्ति । एकस्तावत्स्वसजातीयविजातीयस्वगतभेदशून्यः इत्यर्थः । भेदः स्वसजातीयस्तावत्तस्माद् घटाद् घटोऽयं भिन्नः इति; विजातीयमेदस्तावद् घटात् पटो भिन्न इति; स्वगतस्तावद्भेदः पूर्वम् योऽहं बालः आसम् स एव युवा साम्प्रतम् इति त्रिविधभेदशून्यः एकः अद्वितीयश्चोच्यते-इति रामानुजाचार्याणां वेदान्ततत्त्वसारे । यदुक्तं शास्त्रेषु “एक एव रुद्रः स द्वितीयाय न तस्थे” (तैत्तिरीये); “स एको य एकः स रुद्रो यो रुद्रः स ईशानो य ईशानः स भगवान् महेश्वरः" इत्यथर्वशिरउपनिषदि। पुरुषत्वं च तस्य-“पुरुषो वै सन्महो नमः"; यथा वा कौर्मे, “पश्यन्ति शम्भु कविमीशितारं रुद्रं बृहन्तं पुरुष पुराणम्"; तथा च शङ्करगीतायां “पुरुषो नाम सम्पूर्णः शिवः सत्यादिलक्षणः” इत्यादौ शिवस्य भक्तानां सकलकामनापूरणसामर्थ्य नैकपुरुषत्वमसाधारण्यं च सूचितम् । रोदसी तु सान्तस्य रोदःशब्दस्य द्विवचनम्-“भूद्यावौ रोदस्यौ रोदसी च ते" इत्यमरः । महेश्वरस्य सर्वव्यापित्वमपि प्रसिद्धम् - यथाथर्वशिरउपनिषदि, “स ओङ्कारो य ओङ्कारः स प्रणवो यः प्रणवः, स सर्वव्यापी यः सर्वव्यापी;" "व्यापको हि भगवान् रुद्रः" । श्वेताश्वतरे च. "सर्वाननशिरोग्रीवः