पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/338

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यमरः । तैर्हस्तिशुण्डानिस्सरज्जलबिन्दुधाराभिः पुरोऽग्रे भयेन महाशब्दजनितभीत्या मूच्छितान् चेतनारहितान् दिग्गजान् दिङनागान् सिञ्चति स्मेव पुनरपि चेतनाप्राप्त्यर्थं शीतजलोपचारेण सेवत इव । अत्रोत्प्रेक्षालङ्कारः । भाषा चोलदेश के राजा के हाथियों का झुण्ड, अपने कान रूपी ताड के पत्तों या पंखों से उत्पन्न वायु की लहरों से ठण्ढे भए हुए सूड से छूटने वाले फुवारों के जल से, मानों सामने दिखाई देने वाले भय से मूछित दिग्गजों को फिर से होश में लाने के लिये, शीतोपचार कर रहा था । तच्चमूरजसि दूरमुद्भते यन्न दिग्भ्रममधत्त भास्करः । हेतुरत्र रजसां निवारणं कुञ्जरध्वजपटान्तवीजनैः ॥६६॥ प्रयः तच्चमूरजसि दूरम् उद्भते (सति) भास्करः यत् दिग्भ्रमं न अधत्त अत्र कुञ्जरध्वजपटान्तवीजनैः रजसां निवारणं हेतुः । व्याख्य तस्य चोलराजस्य चमूस्सेना 'ध्वजिनी वाहिनी सेना पूतनाऽनीकिनी चमू' इत्यमरः । तस्या रजो धूलिस्तस्मिन् तत्सेनाधूलौ दूरमत्यूध्र्वमुद्गते उत्पतिते सति भास्करः सूर्यो यद्दिशां भ्रमं दिग्भ्रान्ति नाऽधत्त न बभाराऽत्राऽस्मिन्नर्थे कुब्जराणां हस्तिनां ध्वजपटान्तानां पताकापटप्रान्तभागानां वीजनैस्संचलनैर्गजोपरिस्थितपताकावस्त्राञ्चलसंचलनसमुद्भूतपवनैरित्यर्थः । रजसो धूलीना निवारणं समुत्सारणमेव हेतुः कारणम् । काव्यलिङ्गमलङ्कारः ॥