पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(यतः) ते जयसिन्धुराणां सप्तच्छदबान्धवेन गन्धेन पलायिताः।

                                          व्याख्या  
        यो   नृपो   जयसिंह   देवो   यात्रासु   युद्धयात्रासु    दिक्पालानां   दिगीशानां   पुरीं

नगरीं, अत्र वचनमविवक्षितम्। विलुण्ठ्य लुण्ठयित्वा दिग्गजान् केवलं नाऽग्रहीत्। दिग्गजान्विहाय सर्वाणि वस्तुजातान्थग्रहीदित्यर्थः । यतस्ते दिग्गजा जय- सिन्धुराणां विजयहस्तिनां सप्तच्छदस्य वृक्षविशेषस्य ‘सप्तपर्णो विशालत्वक् शारदो ' विषमच्छदः ' इत्यमरः । बान्धवस्समानस्तेन गन्धेन मदगन्धेन पलायिताः कान्दिशीका जाताः । जयसिन्धुराणां मदगन्धसहनेऽसमर्था दिग्गजा दूरत एव पलायिता इति भावः ।

                                               भाषा 
     वह   राजा   अपनी   दिगन्त   युद्ध   यात्राओं   में   दिक्पालों   की   पुरियों   को   लूटकर

केवल दिग्गजों को नहीं पा सका । क्योंकि वे दिग्गज इस राजा के विजयी हाथियों के सप्तपर्ण वृक्ष के समान गन्धवाले मद की गन्ध से डरकर

 भग   गये   थे ।
      अपारवीरत्रतपारगस्य  पराङ्मुखा  एव  सदा  विपक्षाः ।
    अधिज्यचापस्य  रणेषु  यस्य  यशः  परं  सम्मुखमाजगाम  ।।८५॥
                                                श्रन्वयः
अपारवीरव्रतपारगस्य     अरधिज्यचापस्य    यस्य   रणेषु    विपक्षाः   सदा 

पराङ्मुखाः एव परं यशः सम्मुखम् आजगाम।

                                               व्याख्या