पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अयि विद्वज्जनमनोमयूरविश्रामारामा निरतिशयशेमुषीमण्डिताः पण्डिताः। विदितचरमेव तत्र भवतां भवतां यत् विक्रमाङ्कदेवचरितमहाकाव्यं त्रिभुवन मल्लदेव-विद्यापति-काश्मीरकभट्ट-श्रीबिह्नणमहाकविविरचितं प्रशस्तमहाकाव्येषु अद्य यावदस्य महाकाव्यस्य त्रिवारं प्रकाशनं जातम् । १. डा० जॉर्ज व्युह्नरमहोदयेन महता परिश्रमेण श्री पण्डित वामनाचार्य झळकीकर-महोदयानां श्री भीमाचार्यमहानुभावानाञ्च साहाय्येन मुम्बापुरीसंस्कृत ग्रन्थमालायां १८७५ तम ईशवीये वर्षे प्रकाशितम् । २. प्रातःस्मरणीयानां गुरुवर्याणां स्व. म. म. श्री पं. रामावतारशर्मणां नाम्ना काशीस्थज्ञानमण्डलसंस्थात ईशवीये १९२७ तम वर्षे प्रकाशितम् । ३. श्री पं. मुरारीलाल नागर महोदयैः साहित्याचार्य-एम्. ए. पदवी विभूषितैः विद्वद्वराणां डा० मङ्गलदेवशास्त्रिणां निरीक्षणे काशिक-सरस्वतीभवन पुस्तकालयप्रकाशनविभागात् प्रकाशितम् । प्रथमं—डा० व्युह्नरमहोदयस्य पुस्तकं सम्प्राप्तैकहस्तलिखितपुस्तकाधारेण मुद्रितं, सन्दिग्धस्थलेषु स्वकल्पितपाठभेदेनाञ्चितञ्चाऽशुद्धिबहुलम् । परञ्च महाकाव्यस्याऽस्य सर्वप्रथमं प्रकाशनं कृत्वा गूढान्धकारनिपतितसंस्कृतग्रन्थभाण्डा रादस्योद्धरणं साधारणलोकावलोकने स्थापनञ्च संस्कृतविद्वत्सु डाक्टरमहोदयस्य कृतज्ञत्वं नाऽऽकलयतीति तु न । तथापि विदुषोर्यदत्र सहयोगो वणितस्स पुस्तक