पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः सर्गः ।

भुजप्रभादण्ड इचोध्र्वगामी स पातु वः कंसरिपोः कृपाणः।
यः पाञ्चजन्यप्रतिबिम्बभङ्गचा धाराम्भसः फेनमिव व्यनक्ति ॥१॥

अन्वयः

 यः पाञ्चजन्यप्रतिबिम्बभङ्गया धाराम्भसः फेनं व्यनक्ति इव, सः ऊर्श्वगामी भुजप्रभादण्डः इव कंसरिपोः कृपाणः वः पातु ।

व्याख्य

नृत्यन्ती मुखकमले सुकवीनां रसतरङ्गमग्नानाम् ।
बrणी हंसीव सरो रमणीयं दर्शयति विश्वम ।

 शारिप्सितस्य ग्रन्थस्य निबध्नपरिसमाप्तये । शिष्टाचारपरिभ्राप्तं ‘आशीर्नमः स्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्’ इति मङ्गलाचरणं कर्तव्यमिति श्री बिल्हण-कविरादौ स्वेष्टदेवतां स्मरन्नाशीर्वादात्मकं मङ्गलमाचरति भुजप्रभावण्डत ।

 यः पाञ्चजन्यस्य विष्णोः शङ्करस्थ ‘श लक्ष्मीपतेः पाञ्च-जन्यश्दी सुदर्शनम्' इत्यमरः । प्रतिबिम्बस्य प्रतिच्छायाया भग्या व्याजेन धारायाः कृपाणधाराया अम्भसो जलस्य फेनं डिण्डिरं ‘डिण्डि रोऽब्धिकफः फेनः" इत्यमरः। व्यनक्तीचि प्रकटयतीव सः प्रसिद्ध ऊध्र्वगाम्युपरिष्टात्प्रसरणशीलो भुजप्रभादण्ड इत्र दण्डायमानबाहुकान्तिकलाप इव कंसरिपोः कृष्णस्य । कृपाणः करवालो वो युष्मान् पातु रक्षतु । श्री कृष्ण सम्बन्धिनः कृपणस्योर्घप्रसरणशीलवरूप समानधर्मसम्बन्धनिमित्तकं भुजकान्तिदण्डस्वेनाऽऽहार्थसम्भावनमुत्प्रेक्षेव-पदवाच्या।