पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षितिपालयोषितः गर्भं उदरे वलिस्थितिं भञ्जन्, यः बलेः समुल्लासम् अपाचकार सः कुतः अपि कारणात् अत्र वर्तते इति शशंस इव ।

                              व्याख्या

क्षितिपालयोषितो नपपत्न्या गर्भो गर्भस्थो बाल उदरे वलिस्थितिं त्रिवलिरेखां भञ्जन्नपहरन् यो विष्णुर्वामनरूपो बलेर्बलिनामकदैत्यस्य समुल्लासमौद्धत्यमपाच कार दूरीकृतवान् स विष्णुः कुतोऽपिकारणात्कस्मादप्यनिर्वचनीयकारणादत्रोदरे वर्तते प्रतिवसतीति शशंसेव प्रकटीचकारेव । वबयोरभेदादुत्प्रेक्षा । नाविष्णुं पृथिवीपतिरिति वचनात्तस्य राजपुत्रस्य विष्णुरूपत्वं गम्यते ।

                                भाषा

रानी के गर्भ में का राजपुत्र, रानी के पेट पर की त्रिवली दूर करते हुए यह द्योतित करता था मानो यहाँ पेट में किसी कारण से राजा बलि के औद्धत्य का भङ्ग करने वाले विष्णु के अवतार रूप वामन आये हैं । (गर्भिणी के पेट पर की त्रिवली पेट बढ़ने से नहीं दिखाई पड़ती ।) कृतावतारः क्षितिभारशान्तये न पीड्यमानां सहते महीमयम्। इतीव सा गर्भभरालसा शनैः पदानि चिक्षेप मृगायतेक्षणा ॥६९॥

                               अन्वयः

गर्भभरालसा मृगायतेक्षणा सा, क्षितिभारशान्तये कृतावतारः अयं पीड्यमानां महीं न सहते इति इव शनैः पदानि चिक्षेप ।

                              व्याख्या

गर्भभरेण गर्भभारेणाऽलसा मन्थरगतिर्सूगस्याऽऽयनत ईक्षण इवेक्षणे नेत्रे