पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रखएडस।भ।ग्यावलासया पुनस्तया सम राज्यसुखष्वरज्यत॥५६॥

                              श्रन्वयः
         (सः) शनैः व्रतपारणाविधि विधाय धनैः कृतार्थीकृतविअमण्डलः
       (सन्) श्रखण्डसौभाग्यविलासया तया समं पुनः राज्यसुखेषु अरज्यत ।
                    व्याख्य।
     स राजा शानैः स्वस्थचित्तेन व्रतस्य पूर्वाचरितानुष्ठ।नस्य पारणाविधि समाप्ति–
 कृत्यं ब्राह्मणभोजनादिपूर्वकं स्वभोजनादिकं विधाय कृत्वा कृतार्थीकृतं दान-
 भोजनादिना सन्तुष्टमनोरथीकृतं विप्रमण्डलं ब्राह्मणसमुदायो येनैवम्भूतस्सन्नपखण्डं
 निरन्तरं यत्सौभाग्यं सधवत्वं तस्य विलासः सौख्यं यस्यास्सा तया स्वधवल्लभघा
 सह राज्यसुखेषु राजकीयसुखोपभोगेष्वरज्यत संरक्तो बभूव । मन्त्रिविनिविष्ट
 राज्यकार्यभारमुररीकृत्य पूर्ववत्प्रजापालनतत्परोऽभूदिति भावः ।
                    भाषा
         वह राजा, स्वस्थ चित्त से व्रत का पारण कर और ब्राह्मणों को दान भोजन
     आदि से सन्तुष्ट करते हुए राज्य कार्य का भार लेकर अखण्ड राीभाग्यवती
     होने के सौख्य से युक्त अपनी रानी के साथ राज्य सुख के उपभोग करने में
     प्रवृत्त हुआ ।
  क्रमेण तस्यां कमनीयमात्मजं शुभे मुहूर्ते पुरुहूतसन्निभः ।
  श्रवाप्य सम्पादितमांसलोत्सवः परामगान्निर्वृतिमीश्वरः क्षितेः ॥५७॥
            अन्वयः
   पुरुहूतसन्निभः क्षितेः ईश्वरः क्रमेण शुभे मुहूर्ते तस्यां कमनीयम्