पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्य यत्र वित्रस्तकुरङ्गचक्षुषां विलासवेलन्मणिकुण्डलातिथौ गण्डस्थल चन्द्रमण्डले कुरङ्गकः निघर्षभीत्या इव पदं न करोति । व्याख्या यत्र कल्याणपुरे वित्रस्तानि स्त्रीणां विशालनेत्रकान्त्या भीतानि कुरङ्गाणां मृगाणां चक्षुषि नयनानि याभ्यस्तासां पुराङ्गनानां विलासेन विभ्रमेण वेल्लन्ती तस्ततः परिकम्पमानानि मणिनिर्मितकुण्डलानि कर्णभूषणान्येवाऽतिथयो यस्य तस्मिन् , क्रीडाचञ्चलमणिनिर्मितकर्णावतंसविभूषिते गण्डस्थलमेव चन्द्रमण्डलं शुभ्रत्वाद्वर्तुलत्वादतिशयशोभास्पदत्वाद्वा तस्मिन् कुरङ्गकश्चन्द्रमण्डलस्थित कलङ्करूपो मृगो निघर्षस्य कुण्डलसंघर्षजन्याङ्गच्छेदस्य भीत्या भयेन पदं स्थानं न करोति तत्र न गच्छति । पुराङ्गनानां मुखानि निष्कलङ्कगनीति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा जिस नगर में, अपनी बड़ी २ सुन्दर अांखों से मृगों के नेत्रों को त्रस्त करने वाली स्त्रियों के, खेल में हिलने वाले कान के आभूषणों से शोभित गण्ड स्थल (गाल) रूपी चन्द्रमण्डल में चन्द्रमा का कलङ्क रूप मृग, कर्णभूषणों की रगड़ के भय से नहीं आता । अर्थात् चन्द्र सदृश कपोल होने पर भी चन्द्र सकलङ्क है किन्तु उनका गण्डस्थल निष्कलङ्क है । समुच्छलन्मौक्तिककान्तिवारिभिः सुवर्णकुम्भैः सुरसद्ममूर्धगैः ।