पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजस्थनप्श्ण् प्पीट्णा थम् क्रुस्टाब्बध जसलमरास्थान्थ् जनब्रुहज्नानकाष बाण्डारेथिप्राचिनम् प्रतिलिपिमासादितवान । स च काव्यस्याऽस्याऽनितरसाधा रणतामाकलयन्नात्मसुहृत्साहाय्येन दिवससप्तकाभ्यन्तर एवाऽस्य प्रतिलिपिं विधाय तस्मिन्नेव हायनान्तरे चाऽऽत्मभूमिकया समं महाकाव्यमिदं सर्वसुलभञ्चकार। इत्थञ्चाऽस्य महाकाव्यस्यैकस्या एव प्रतिलिपेरवाप्त्या बहवोऽशा अशुद्धिग्रस्ता:। तदनन्तरं डा० रामकृष्णभाण्डारकर-वेङ्कटराममहोदयादयश्चालुक्यवंशेतिहासे प्रकृतकृतौ विक्रमाङ्कदेवचरिते वनवान्बहून्विषयान्प्रकाशपथमासादयामासु एवं सत्यपि काव्यमूलरूपं तदवस्थमेव (अशुद्धिबहुलम्) आसीत् । कांलक्रमादूह्नरसंस्करणे समाप्तिमासादिते काशीस्थज्ञानमण्डलमुद्रायन्त्रालया न्महामहोपाध्याय-पण्डितप्रबर-गुरुवर-श्रीरामावतारशर्मनाम्ना सम्पादितं प्रकृत महाकाव्यस्य संस्करणान्तरञ्च प्रकाशभावमानीयत । परमत्र संस्करणेऽपि पूर्व संस्करणाशद्धीनां निराकरणस्य का कथा ? नवनवान्यशुद्धयन्तराण्यपि लोचन पथातिथितां प्रयान्ति, यतः सहृदयानां चेखिद्यते चेतः । अत्र श्रीमतां गुरुवर्याणां नामसंयोगो मनसि विचिकित्सामुत्पादयति। समाप्तप्रायेऽस्मिन्नपि संस्करणेऽस्य काव्यस्य महत्वं लोकप्रियत्वञ्च निरीक्षक्ष्य शास्त्रिमुरारिलालनागर एम्० ए० साहित्याचार्यमहोदयैः परिश्रमातिशयेन जैसलमेरबृहज्ज्ञानकोशभाण्डारात्, पुण्यपत्तनस्थ-भाण्डारकरप्राच्यगवेषणासंस्थात (Bhandarkar (0riental Resear७h Instit:te, P00ma.), अन्यतश्च प्रस्तुतग्रन्थस्य पञ्चषहस्तलिखितानि पुस्तकान्यासाद्य शुद्धपाठनिर्धारणे श्लाध्यं प्रयासं कृत्वा महाकाव्यमिदं काशीस्थसरस्वतीभवनतः (Princess of Wales Saraswati Bhawana Text Series.) प्रकाशितम् । परञ्चाऽऽत्राऽपि यत्र तत्र सम्पादनरभसादन्यकारणाद्वा पाठभेदनिर्णये प्रमादो जात इव दृश्यते यथातत्र अस्मरदुद्विरदानवारिणा तेन वारिनिधिराविलीकृतः । हन्त सन्ततमदस्य विभ्रमानभ्रमुप्रियतमस्य दन्तिनः । (सर्ग ५ श्लो० १६) च