सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
[स° ४
विक्रमाङ्कदेवचरितम् ।

कल्लोलतूर्यनिर्घोषैश्चन्द्रचूडामणेः पुरीम् ॥ ६८ ॥

इत्युक्त्वा विरते तत्र कृतनेत्राम्बुदुर्दिनः ।
हृतासिधेनुः पार्श्वस्यैः साक्रन्दगलकन्दलः ॥ ६९ ॥

स्वभावादार्द्रभावेन पितृस्नेहाञ्च तादृशः ।
तथा रुरोद वपुषा भूपृष्ठलुठितेन सः ॥ ७० ॥

एवंविधदुराचारगृहीतनियमं यमम् ।
मन्यतेस्म यथा वंशे तिग्मांशुरपि कण्टकम् ॥ ७१ ॥

एतद्दुःखानभिज्ञेभ्यो दिनेभ्यः स्पृहयन्मुहुः ।
दिवसोपि यथात्मानं मन्दभाग्यममन्यत ॥ ७२ ॥

अथ कालकलाः स्थित्वा कियतीरप्यसौ तथा ।
अचिन्तयदविश्रान्तवाष्पसंतानदुर्दिनः ॥ ७३ ॥

तथादिकूर्म कर्माणि निषेधन्ति सुखस्थितिम् ।
प्रयाहि शेष निष्पेषादस्थिपञ्जरशेषताम् ॥ ७४ ॥

दिग्गजात्यजत स्वैरक्रीडाविहरणादरम् ।
संभूय भूयः सर्वेपि धारयन्तु धरामिमाम् ॥ ७५ ॥

बाहुराहवमल्लस्य सुवर्णस्तम्भविभ्रमः ।
पुरंदरधुरां धर्तुं धात्रा व्यवहितः कृतः ॥ ७६ ॥

निजासु राजधानीषु स्थिति दधतु पार्थिवा:|
तादृशः पुनरुत्साहो वीरसिंहासने कुतः ॥ ७७ ॥

तहाहुदण्डविश्लेषे किं पौरुष करिष्यसि ।
प्रतिपालकवैधुर्यात्प्रताप परितप्यसे ॥ ७८ ॥

पद्मे पद्माकरानेव पुनः सद्मत्वमानय ।
अयं त्वया पतिभ्रंशसंतापोन्यत्र दुःसहः ॥ ७९ ॥

श्वान्यशेषफ़णाचक्रषिण्टकात्पतनं भुवः ।