पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ विक्रमाङ्कदेवचरितम् ।

कुमार व्यापिपर्त्येष दुर्वार्ताप्रलयाम्बुदः ॥ १४ ॥
आपाण्डुपाण्डय मालोलचोलमाक्रान्तसिंहलम् ।
देवस्त्वद्विजयं श्रुत्वा भेजे सुखमय स्थितिम् ॥ ४५ ॥
अकाण्डे विधिधाण्डालस्तस्मै दाहज्वरं ददौ ।
न कैश्चिदपि लभ्यन्ते निष्कम्पाः सुखसंपदः ॥ १६ ॥
अपरिश्रान्त संतापश्चन्दनालेपनेन सः |
स्वदपालीपेयूषमाचकाङ्क्ष पुनःपुनः ॥ १७ ॥
क्रमादर्धप्रबुद्धानि शिशिक्षे यीक्षितानि सः ।
वासवस्येष दूतेषु कुर्वन्गजनिमोलिकाम् ॥ ४८ ॥
अन्तदाहमिवालोक्य प्रियां कीर्ति विनिर्गताम् ।
दर्शयन्दशनज्योत्स्नामथोवाच स मन्त्रिणः ॥ ४९ ॥
क्षिप्ता मुकुटमाणिक्यपट्टिकास महीभुजाम् ।
टङ्कनेष प्रतापेन निजाज्ञाक्षरमालिका |॥ ५० ॥
दिग्भित्तयः शरश्रेणिकृतच्छिद्र परंपराः ।
स्वयशोराजहंसस्य प्रापिताः पञ्जरश्रियम् ॥ ५१ ॥
अदरिद्रीकृता भूमिर्विमुद्राभिर्विभूतिभिः ।
नीताः कुलवधूसाम्यं साधूनां वेश्मसु श्रियः ॥ ५२ ॥
प्राप्तः कोदण्डपाण्डित्यजातलक्ष्मीसमागमः |
काकुत्स्थनिविडस्थामा सुनुर्विक्रमलाञ्छनः ॥ ५३॥
तेनैव युवराजत्वं समारोप्य यशस्विना |
एष साम्राज्यभारस्य वोढा सोमेश्वरः कृतः ॥ ५४ ॥
इति मे कृतकृत्यस्य माहेश्वरशिरोमणेः ।
गिरिजानाथनगरे समारोहणमुत्सवः ॥ ५५ ॥
आत्मानमुन्मदवाःस्थगलहस्तित सेवकाः ।

[स° ४