दत्ता विश्वाद्भुतगुणगणोपार्जिता येन लक्ष्मीः ॥ ९९ ॥
मन्ये वाम्यत्कलियुगभयादागतस्योपकण्ठे
धर्मस्याश्रमविरमणं शीकरैर्या करोति ।
वाणारस्यां पुरि परिहृतो येन तस्यां द्दुसिन्धौ
स्नात्वा दैवोपनतकुनृपालोकनात्थः कलङ्कः ॥ ९२ ॥
कालः कालञ्जरगिरिपतेर्यः प्रयाणे धारेत्रीं
सुक्खाराणां खुरपुटरवैः क्ष्मापशून्यां चकार ।
श्रीडाहालक्षितिपरिवृढः सोपि यं प्राप्य वृत्तं
कर्णः कर्णामृतरसभरास्वादमन्तस्ततान ॥ ९३ ॥
यस्यातृप्तः स्फटिकगिरिणा तं विनिक्षिप्य वामे
प्रालेयाद्रेः क्षणमभिमुखो दक्षिणः पाणिरासीत् ।
सं पौलस्त्यं विदलितवतः सूक्तिनिःस्यन्दशीतां
सीताभरचयदसौ राजधानीमयोध्याम् ॥ ९४ ॥
नीत्वा गङ्गाधरमवरतां डाहलाधीशधानि
क्रीडाक्रान्तप्रतिभटकवेः पूर्वदिक्कोटरेषु ।
निर्जित्यैरावतमदजलभ्रान्तभृङ्गालिनादा-
सुत्राणापि श्रवसि लुठितं यस्य शङ्के कथाभिः ॥ ९५ ॥
भोजः क्ष्माभृत्स खलु न खलैस्तस्य साम्यं नरेन्द्र-
स्तत्प्रत्यक्षं किमिति भवता नागतं हा हतास्मि ।
यस्य द्वारोडमरशिखरकोडपारावतानां
नादव्याजादिति सकरुणं व्याजहारेष धारा ॥ ९६ ॥
कक्षाबन्धं विदधति न ये सर्वदेवाविशुद्धा-
स्वद्भाषन्ते किमपि भजते यज्जुगुप्सास्पदत्वम् ।
. XVIII. 93. नृतं Ms. XVIII. 94. यस्यादृप्तः Ms. XVIII. 95. नादात्सु Ms