पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स० १८] विक्रमाङ्कदेवचरितम् ।

दत्ता विश्वाद्भुतगुणगणोपार्जिता येन लक्ष्मीः ॥ ९१ ॥
मन्ये भ्राम्यत्कलियुगभया
धर्मस्याध्वश्रमविरमणं
शीकरैर्या करोति ।
वाणारस्यां पुरि परिहृतो येन तस्यां सिन्धो
स्नात्वा दैवोपनतकुनृपालोकनोत्थः कलङ्कः ॥ ९२ ॥
काल: कालञ्जरगिरिपतेर्यः प्रयाणे धरित्रों
सुक्खाराणां खुरपुटरवैः क्षमापशून्यां चकार ।
श्रीडाहालक्षितिपरिवृढः सोपि यं प्राप्य वृत्तं
कर्णः कर्णामृतरसभरास्वादमन्तस्ततान || ९३ ॥
यस्यातृप्तः स्फटिकगिरिणा तं विनिक्षिप्य वामे
प्रालेयादेः क्षणमभिमुखो दक्षिणः पाणिरासीत् ।
पौलस्यं विदलितवतः सूक्तिनि:स्यन्दशीतां
सीतामरचयदसौ राजधानीमयोध्याम् ॥ ९४ ||
नीत्वा गङ्गाधरमवरतां डाहलाधीशधानि
क्रोडाक्रान्तप्रतिभटकवेः पूर्वदिक्कोटरेषु ।
निर्जित्यै रावतमदजलभ्रान्तभृङ्गालिनादा-
न्सुत्राम्णोषि श्रवसि लुठितं यस्य शङ्के कथामिः ॥ ९५ ॥
भोजः क्ष्माभृत्स खलु न. खलैस्तस्य साम्यं नरेन्द्र-
स्तत्प्रत्यक्षं किमिति भवता नागतं हा हतास्मि ।
यस्य द्वारोडमरशिखरकोडपारावतानां
नादण्याजादिति सकरुणं व्याजहारेख धारा ॥ ९६ ॥
कक्षाबन्धं विद्धति न ये सर्वदेवाविशुद्धा-
स्तद्भाषन्ते किमपि भजते यज्जुगुप्सास्पदत्वम् ।

C XVIII. 93. नृतं Ms.– XVIII. 94. यस्यादृप्तः Ms.- XVIII. 95. ● नादात्सु ● Ms.