सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स ॰१८]
१५५
विक्रमाङ्कदेवश्चरितम् ।

धीतः क्षोणीवलयजयिना जन्हुकन्याजलेषु ॥ ३४ ॥
कर्तुं की तिलकमलकागोपुराणां गतेन
क्रौञ्चस्याङ्गे भूगपतिशरच्छिद्रमद्रेविलोक्य ।
येन क्रीडालयशबलिताः पोवरे बाहुदण्डे
चण्डध्वाने धनुषि च रुषा सूत्रिता दृष्टिपाताः ॥ ३५ ॥
सिद्वैरध्यासिततटभुषः स्त्रावसप्तर्षिहस्त-
न्यस्तवाम्यत्तिलतिलकितस्रोतसो मानसस्य |
यत्कान्ताभिः शिरसि विधृताः सारसौभाग्यलोभा-
स्कैलासस्थत्रिनयनवधूक्षालिताङ्गास्तरंगाः ॥ २६ ॥
यः संतोषं चरितविषये पूर्वपुंसां न भेजे
सारग्राही रघुपतिकथामत्सरादेकवीरः ।
चक्रुः क्रोढोद्धृतहरगिरेस्ते हि रोहकलङ्का
लङ्काभर्तुर्भुजतरुवनच्छेदनं नार्धचन्द्रैः ॥ ३७ ॥
चम्पासीनि क्षितिपतिकथाघान्नि दार्याभिसारे
त्रैगतीषु क्षितिषु भवने भर्तुलक्षोणिमर्तुः ।
क्रीडाशैलीकृतहिमगिरेहांसीतेव यस्य
स्वाम्यत्याज्ञा सुकृतवसतेर्भूप्रतापादयानाम् ॥ ३८ ॥
कृत्वा मध्ये मठमनुषमोत्तुङ्गदुर्गानुकार
वैतस्त्येन ग्रथित परिखारेखमम्भोभरेण ।
लग्नाः शृङ्गैर्नभसि विजयक्षेत्रभट्टाशहाराः -
प्राकारत्वं कलिमयमिदे येन धर्मस्य नीताः ॥ ३९ ॥
देवी तस्य प्रचुरयशसश्चन्द्रिकेषेन्दुजाता
याता ख्यातिं जगति सुभटेत्यादिभार्यां बभूव ।

XVIII, 37. च्छेदन M8.