सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
स ॰१८]
१५३
विक्रमाङ्कदेवचरितम् ।

धाम व्योमाङ्गलिकतां क्षेमगौरीश्वरस्य ।
रामा रामानुकरणविधौ यत्र नाट्यप्रयोगे
योगस्थानामपि सपुलकं गात्रमासूत्रयन्ति ॥ २३ ॥
संग्रामर्षीपरिवृढमठप्रान्तसीमन्तितीसौ
यस्मिन्नक्ष्णोतिवितराति सुधां चन्द्रसीमाप्रदेशः ।
यत्रानन्तक्षितिपतिकृतास्ते वितस्तोपकण्ठे
याताः कान्त्या हरधवलया हारतामग्रहासः ॥ २४ ॥
गर्जद्वातायनविततयः शाखगोष्टीवरिष्टै -
स्ताः काष्टीलद्विजवसतयो यत्र नेत्रोत्सवाय |
यासु त्रासं विद्यति कलेदर्शनादेव विप्राः
सायं प्रातः प्रहुतहुतभुग्धूमधूत्रैः शिरोभिः ॥ २५ ॥
यत्रानन्तक्षितिपगृहिणीशंकरागारपार्श्वे
तङ्गिन्ना त्रिभुवनमनोरञ्जनं गजधाम ।
श्रुत्वाश्रुत्वा रुतमविरतं यत्र पारापतानां
दक्षाः कण्ठध्वनिषु शनकैः पौरकन्या भवन्ति ॥ २६ ॥
यत्क्षेत्रेषु स्थितिमरचयद्वल्कलं यत्सियेवे
जाने जैत्रं किमपि तपसस्तस्य माहात्म्यमेतत् ।
तत्रत्यस्य प्रथमवयसः स्त्रीजनस्यादुकानां
यत्काश्मीरं कनकमुहृदामन्तरङ्गत्वमेति ॥ २७ ॥
गेहं यत्र प्रवरगिरिजावलभस्पाडुतं त-
स्केषामाशां सुरपतिपुरारोपणे नातनोति !
यद्यातस्य प्रवरनृपतेद्य शरीरेण सार्धं
स्वर्गद्वारप्रतिममुपरिच्छिद्रमद्यापि धत्ते ॥ २८ ॥
XVIII. 25. काल : दशनादेव Is