पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

काश्मीरेषु प्रवरपुरमित्यस्ति मुख्यं पुराणां
यातं गौरीपरिणयविधौ साक्षितामिन्दुमौलेः ।
यस्यायान्ति प्रकृतिकुटिलास्ते वितस्तास्तरंगा:
स्वेच्छाधावस्कलियुगगजाधोरणत्वेङ्कुशत्वम् ॥ १ ॥
उद्यानेभ्यः सकलभुवनाश्चर्यमाधुर्यधुर्यं
स° १८]
पीत्या द्राक्षारसमित्र करैर्जातसंतापशान्तिः ।
ज्येष्टाषाढेष्विव कमलिनी कामुको यत्र धत्ते
रत्नश्रेणीकिरण कलिका कोमलामंशुमालाम् ॥ २ ॥
कृत्वा शैलं करतलतुलारूढमर्धेन्दु मौले-
र्हास्यज्योत्स्नां दशसु विसृजन्दिक्षु दर्पाद्दशास्यः |
यस्मादुच्चैः स्फुरितमहसां ब्राह्मणानां निवासा-
च्छापत्रस्तस्त्वरितमगमद्दूरतः पुष्पकेण ॥ ३ ॥
उत्तुङ्गानां मणिगृहमुवां यत्र वातायनेषु
व्याख्याभिख्याप्रणयिनि जगदुर्लभे सूरिचक्रे ।
देवाः मोद्यांद्वपुलपुलकाः किं न वर्षन्ति पुष्पै
नाशङ्कन्ते यदि सुरगुरोस्तत्र वैलक्ष्यदीक्षाम् ॥ ४ ॥
धत्ते यस्याः स्फटिकशुचिभिः क्षालयन्त्या यशोभिः
स्थित्या गौरीगुरुरपि गिरिर्नूनमुच्चैः शिरांसि |
गाङ्गस्पर्धोद्धुर मधुमती सैकतोत्तंसहंसी
विद्यारक्षाधिकृतमकरोत्सा स्वयं शारदा यत् ॥ ५ ॥
ब्रूमः सारस्वत कुलभुवः कि निषेः कौतुकानां
तस्यानेकाद्भुतगुणकथाकीर्णकर्णामृतस्य ।

XVIII. T. जातं; ° विश्रो Ms. - XVIII. 3. दशभुवि ; पुधन Ms. XVIII. 5 यशोभिः om. Ms.