| स॰ १४ ] | विक्रमाङ्कदेवचरितम् | १२७ |
क्रीडाकाङ्क्षिणि कुञ्जरे कृतपदस्तं देशमाक्रान्तवान् ।
यत्रानेन करिष्यते प्रतिपथव्यावर्तिताम्भोभर-
भ्रभ्यद्वीरकरङ्कसंकटतटा सा कृष्णवेणी सरित् ॥ ७१ ॥
अवनतिलकस्तत्रावासं विधाय सरित्तटे
घटयितुमिमं साम्मैवाभूदुपायपरायणः ।
कुटिलहृदयः सन्ने तस्मान्न सान्त्वनमग्रही-
द्भवति हि मतिर्भाग्यभ्रंशे नितान्तमनङ्कुशा ॥ ७२ ॥
' इति श्रीविक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमल्ल-
देवविद्यापति काश्मीरकभट्टबिल्हणविरचिते चतुर्दश: स-
र्गः ॥ १४ ॥
भुजविक्रमदन्तिडिण्डिमः समरोत्साह शिखण्डिवारिदः ।
अथ कुन्तल भर्तुरध्वनद्विजयोद्योगविलासदुन्दुभिः ॥ १॥
विजयोत्सुकवीर सुन्दरीकृतनिष्कम्पचतुष्कमण्डलाः ।
नरनाथपथावलोकनप्रगुणत्वं सुभटाः सिषेविरे ॥ २ ॥
रणदुन्दुभिमेघनिस्वनैः सुभटश्रेणिविदूरभूमयः ।
अभवन्त्रिसृतासिवलरीनवरस्नाङ्कुरकोटिदन्तुराः ॥ ३ ॥
रणसंभ्रमलोलभङ्गिषु न्यपतन्नद्भुतरागनिर्भराः ।
कबरीषु कुरङ्गचक्षुषामसिलेखासु च वीरदृष्टयः ॥ ४ ॥
अधिरोपितसारिपञ्जरस्थिति दर्पो दुरयो धमण्डलाः ।
अभजन्त गजाः स्थिति बहिर्माणसंनाहनिवेशपेशलाः ॥ ५ ॥
सुभटः प्रमदाकरार्पितं दलयन्नागरखण्डवीटिकाम् ।
रिपुदन्तिघटासु खण्डनं तृणमुत्साहवशादमन्यत ॥ ६ ॥
XIV. 71. श्रोतस्विनी • Ms.