| स° १४] | विक्रमाङ्कदेवचरितम् | १२३ |
सिक्तमृम्बुदजलैनभस्तलं जातशालामिव व्यराजत ॥ २६ ॥
खेदकारणमवान्तरापगासंगमं गतमवेत्य वारिधेः ।
संमदादिव महातरंगिणीचकवालमगमत्प्रसन्नताम् ॥ २७ ॥
उत्कटेन तडितामियोष्मणा संनिरुष्य जलदेन तापितः ।
अंशुभिः खरतरैरदर्शयत्तापमप्यधिकमुष्णदीधितिः ॥ २८ ॥
पक्कशालिवनमध्यतः करैः पाटलैः कलमगोपकाजनः ।
नूतनोतसरोजसंगतानास्त वारयितुमक्षमः शुकान् ॥ २९ ॥
निर्गतैरिव तडित्प्रदीपतः सान्द्रकज्जलरजोभिराचितम् ।
वृत्तकपरनिभं नभस्तलं नीलिमानमतिमात्रमाययौ ॥ ३० ॥
सार्धमम्बुभिरिषेत्य वारिधेमौक्तिकानि गलितानि तोयदात् ।
व्योममण्डलमडूनि भेजिरे कैरवाधिक रुचीनि रात्रिषु ॥ ३१ ॥
नीलनीरदनिचोलकोज्झिते व्योमदर्पणले शरद्वधूः ।
चन्द्रमाननमिषावलोकयचरक्षणोन्मिषितकैरवेक्षणा ॥ ३२ ॥
भातपः कुममदत्त वासरे चन्द्रिका जनमनन्दयन्निशि ।
वक्रतुर्निजगुणप्रकाशनं स्पर्धयेष तपनक्षपाकरौ ॥ ३३ ॥
सान्द्रचन्दनविलेपनादपि कान्तिहारिषु गृहाङ्गणस्थितः ।
न प्रदोषसमये मरीचिषु प्राप तृप्तिममृतद्युतेर्जनः ॥ ३४ ॥
पुण्ड्रकेक्षुलतिकाश्चकासिरे क्षेत्रभूमिषु कृतेक्षणोत्सषाः ।
लम्बिता इव विधः सुधाभरादंशवः स्फटिकदण्डपाण्डुराः ॥ ३५ ॥
शक्रकार्मुकाविलोकनाद्भुषं क्रन्दितं भयवशात्कलापिभिः ।
यत्र यहतवति क्षणेन ते मौनमानतमुखाः सिषेविरे ॥ ३६ ॥
क्षुण्णमौक्तिक पराग पाण्डुरः शोभतेस्म दिवि चन्द्रिकाभरः ।
XIV. 27. समदादिव Ms. - XIV. 29. कलमर्गौरिका Ms. XIV. 30. प्रदीपित: Ms. - XIV. 31. रिवैत्यं चारि : लांगतानि Ms.