प्रेषितस्य वनवासमण्डले वर्तते नयविपर्ययो महान् ॥ ४ ॥
न्यायमार्गमपहाय कुर्वता तेन कोशमविशङ्कचेतसा ।
सर्वतः सकललोकपीडनादुद्विहारहारिणाः कृता भुवः ॥ ५ ॥
भूसिंगर परिश्रमार्जितां स्वामिनः प्रियतमां वहन्ति ये ।
दन्तपृष्ठवलयीकृतैः करैर्विष्टर प्रणयिनीमिव श्रियम् ॥ ६ ॥
चुम्बिताने मदानेद्रया मुहुर्ये नयन्ति नयनान्यमुद्रताम् ।
लोलकर्णपुट वातशीतलैरुच्छलद्वहलदानशीकरैः ॥ ७ ॥
कान्तदन्तविसकाण्डनिर्गमे दानपङ्कपटले वहन्ति ये ।
बिम्बितं दिवसथमण्डलं पुण्डरीकमिव मन्दिरं श्रियः ॥ ८ ॥
उल्लिखन्ति दशनैः शिलातलान्युन्मदाः क्षितिधरस्थलीषु ये ।
तेषु तैक्ष्ण्यमिव कर्तुमुद्यताः प्रत्यनीकभटभेदनोटम् ॥ ९ ॥
वत्सलेन भवता समर्पितास्तस्य ते कति न गन्धसिन्धुराः ।
तद्बलात्किमपि चिन्तयत्यसौ यत्कथापि वितनोति पातकम् ॥ १० ॥
सर्वमाटविकचक्रमक्रमव्यापृतस्तलगतं चकार सः ।
शार्बरेष्विव तमस्सु राक्षसाः पापकारिषु मिलन्ति पापिनः ॥ ११ ॥
द्राविडं स नृपति सहायतां प्रापयत्यविरतैरुपायनैः ।
कर्तुमिच्छति न कैरुपक्रमैर्भेदजर्जरमिदं भवद्बलम् ॥ १२ ॥
भूरिभिः किमथवा कथा तैस्तत्त्वमेतदवधार्यतां नृप ।
कैश्चिदेव दिवसैः स संमुखः कृष्णवेणिनिकटे भविष्यति ॥ १३ ॥
इत्युदीर्यं विरते विशारदे तत्र शारदमृगाङ्कनिर्मलः ।
नाभ्यधत्त सहसा किमप्यसौ न त्वयं दवति धीरचेतसः ॥ १४ ॥
किं श्रिया चपला प्रतार्थसे वत्स मामति विपर्ययोस्तु ते ।
XIV. 5. हारण: Ms. XIV. 8. दतिवेिश : मंडिरं Ms. - XIV. 10. After this verse the Ms. inserts भन क्रियाकुलक