सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
[स॰६
विक्रमाङ्कदेवचरितम्।

अहह महदनर्थबोजमेतद्वेिविहतकेन विरोधसारणीभिः ।
अविनयरसपूरपूरिताभिर्विहितमकीर्ति फलप्रदानसज्जम् ॥ ५६ ॥

इह निहतनयः समागतो यत्समममुना परिपन्थिनाग्रजो मे ।
समरशिरसि संचरन्पृषत्कैः कथमपरामृशता मया निवार्यः ॥ ५७ ॥

पितुरापि परिपन्थिनीं विधाय श्रियमहमत्र निवेशयांबभूव ।
सपदि कथमिमं कदर्थयामि व्यथयति मामहहा महाननर्थः ॥ ५८ ॥

अपसरणमितः करोमि किंचित्प्रसरति गोत्रवधाय नैष बाहुः ।
परमयमयशांसि दुष्टलोकः किमापि निपात्य मयि प्रमोदमेति ॥ ५९॥

इति गिरमभिधाय निष्कलङ्कां विशदमनाः शनकैर्यशोधनोसौ ।
अनुनयवचनानि तस्य पार्श्वे कति न विसर्जयतिस्म राजपुत्रः ॥ ६० ॥

स तु शपथशतैः प्रपद्य सर्व वितथवचाः कुलपांसनत्वमाप्तः ।
क्षणमनुगुणमैक्षत प्रहर्तुं मलिनधियां धिगनार्जवं चरित्रम् ॥ ६१ ॥

किमिदमुपनतं यशोविरोधि त्रिदिवगतः किमु वक्ष्यते पिता मे ।
इति मनसि निधाय जातनिद्रं नृपतनयं शशिमौलिरादिदेश ॥ ६२ ॥

त्वमिह महति वत्स देवकार्ये ननु गुणवानवतारितो मयैव ।
तरलयति मुधा विकल्पदोला किमिति मनस्तव शुद्धधैर्यधाम्नः॥ ६३ ॥

सपादि न शुभमस्ति मोहहेतोरितलपरिमाणमपि त्वदप्रजस्य ।
इह हि विहितभूरिदुष्कृतानां विगलति पुण्यचयः पुरातनोपि ॥ ६४ ॥

भव भुवनमहोत्सवे तदत्र प्रगुणधनुः परिपन्धिनां प्रमाथे ।
स्मरसि न किमिति स्थितिस्तवैषा ननु भुवि धर्मविरोधिनां वधाय ॥६५॥

गिरमिति स निशम्य विश्वभर्तुर्गिरितनयाद्वितस्य मुक्तनिद्रः ।
वचनमिदमलङ्घयमिन्दुमौलेोरिति रणकर्मणि निश्चयं चकार ॥ ६६ ॥

__________________________________________________________________________________________________________
VI. 56. सारिणीभि: Ms. - VI. 63. बक्षने Ms. - VI. 63. कामानि Ms.-VI. 64. पुण्यवयः Ms.