सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८ विक्रमाङ्कदेवचरितम् [स॰६

अधरहसितकिंशुका शुकाय क्रमुकदलं वदनस्थमर्पयन्ती !
क्षितिपतितनयेत्र कापि नेत्रप्रणायिनि चुम्बनचातुरीमुवाच ॥ १२ ॥

गृहशिखरमगम्यमध्यरोहद्रुतमवधीरितपादभीतिरन्या
मरणमपि तृणं समर्थयन्ते मनसिजपौरुषवासितास्तरुण्यः || १३ ||

कलकलमपरा मुधा विधाय क्षितितिलकान्नयनान्तमाससाद ।
अवतरति मृगीदृशां तृतीयं मनासेजचक्षुरुपायदर्शनेषु ॥ १४ ॥

हृदि विहितपदेन शुद्धभासा कृतमघरं धरणीन्द्रसूनुनेव ।
निपतितमवधीर्य हारमन्या हरिणविलोलविलोचना जगाम ॥ १५ ॥

उरसि मनसिजावतंसलीलासमुचितकोमलपल्लवानुकाराम् ।
नखलिपिमपरा प्रकाशयन्ती सुरतत्रिमर्दसहत्वमाचचक्षे ॥ १६ ॥

अभजत मणिकुण्डलं परस्याः श्रवणपरिच्युतमंसदेशमेत्य ।
गलविगलितपुष्पबाणचक्रश्रियमसितोत्पलचारुलोचनायाः ॥ १७ ॥

परिकलितचुलुक्यराजपुत्रप्रथमविलोकनकौतुकत्वराणाम् ।
इति नगरकुरङ्गलोचनानामभवदनङ्गविलोभनो विलासः ॥ १८ ॥

नरपतितनयः कयापि कोपस्फुरितरदच्छदलेखया लुलोके ।
प्रकटितपटुपञ्चबाणलीला कलकिलिकिञ्चितमीक्षणाञ्चलेन ॥१९॥

कनकसदनवेदिकान्तरालग्रथितपदः क्षितिपालनन्दनोसौ ।
सुरशिखरितटीविटङ्गमध्यप्रणयिनमुष्णकरं निराचकार ॥ २० ॥

कतिचिदपि दिनानि तत्र नीत्वा परिसर भूमिषु भूरिभिर्विलासैः ।
चरणतलनिविष्टदुष्टवर्गः पुरमवलोकयतिस्म गाङ्गकुण्डम् ॥ २१ ॥

द्रविडनरपतिप्रतापमीत्या किमपि गते पयसां निधी परस्तात् ।
यदविहितविवाहमङ्गलाया बहिरिष निर्गतमादिवाम लक्ष्म्याः ॥२२॥

गगनमुपगतेन शोभते यन्त्रिरुपमकाञ्चनवत्रमण्डलेन ।

__________________________________________________________________________________________________________
VI. 20. वि om. IMs.